________________ 802 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [7. निक्षेपपरि० शतः' इति क्वचित् पाठः। तत्रायमर्थः-विवृद्धाऽभिनिवेशतोऽयमात्मा जीवादितत्त्ववित् तपोनिर्जीर्णकर्मा च भवति सम्यग्दर्शनपूर्वकत्वात् सम्यग्ज्ञानचारित्रयोरिति / अनेन च ग्रन्थेन विमुक्तेः सम्यग्दर्शनज्ञानचारित्रात्मिका सामग्री प्ररूपिता भवति, तदन्यतमस्याप्यपाये तस्या अनुपपद्यमानत्वात् / तदनुपपद्यमानत्वञ्च 5 अत्रैव अनन्तरं प्रतिपादयिष्यते / किं कृत्त्वाऽसौ विवृद्धाभिनिवेशनः तत्त्वविच्च इत्याह-'अनुयुज्य' इत्यादि / अनुयोगशब्दः प्रश्ने प्रतिवचने चे प्रवर्त्तते; तद्यथा 'कृतानुयोगोऽपि भवान्न किश्चिद् ब्रवीति तूष्णीमादाय स्थितः' इत्यत्र अनुयोगशब्दः प्रश्ने प्रसिद्धः। 'दत्तानुयोगोऽपि भवान् पुनः पुनः पृच्छति' इत्यत्र तु पृष्टप्रतिवचने इति / तेनायमर्थः स्थितो भवति-अनुयुज्य जीवद्रव्यादेः स्वरूपादि तज्जिज्ञासया पृष्ट्वा / 10 कैः ? अनुयोगैश्च। अनुयोगैरेव, चकार एवकारार्थे। किंविशिष्टैः ? इत्याह 'निर्देश' इत्यादि / निर्देश आदिर्येषां स्वामित्वादिसदादीनां तद्भिदां गतैः निर्देशादिभेदरूपैः इत्यर्थः। निर्देशादौ च प्रश्न प्रति द्वयी गतिः-नामनि निर्जीते लक्षणनिर्णयार्थः प्रश्नो भवति लक्षणे वा निर्माते नामनिर्ज्ञानार्थ इति / तत्र पूर्वस्मिन् पक्षे 'किं लक्षणं जीवादि16 द्रव्यम्' इति प्रश्नः, 'उपयोगादिलक्षणम्' इति प्रतिवचनम् / अपरस्मिन् पक्षे 'उपयोगादिलक्षणः किन्नामा पदार्थः' इति प्रश्नः; 'जीवादिनामा' इत्युत्तरम् / के पुननिर्देशादयः इति चेत् ? उच्यते-'किम्' इत्यनुयोगे वस्तुस्वरूषकथनं निर्देशः / 'कस्य' इत्यधिपतित्वख्यापनं स्वामित्वम् / "केन' इति करणप्रकाशनं साधनम् / 'कस्मिन्' इत्याधाराभिधानम् अधिकरणम् / ‘कियच्चिरम्' इति कालकृतावस्थाव्यवस्थापन 20 स्थितिः / 'कतिविधम्' इतिप्रकारकथनं विधानम् / अत्र किम्, कस्य, केन, कस्मिन् , कियच्चिरम्, कतिविधम्' इति प्रश्नरूपः अनुयोगः / 'वस्तुस्वरूपकथनम् , अधिपतित्वख्यापनम्' इत्यादिकस्तु प्रतिवचनरूप इति / अधिगता निर्देशादयः / सदादयो निरूप्यन्तामिति चेदुच्यते-सकलपदार्थाधिगतिमूलं द्रव्यपर्यायगुणसामान्यविशेषविषयं 'सत्' इत्यभिधानं सत् / सकलादेश (1) विमुक्तेः / (2) "प्रश्नोऽनुयोगः पृच्छा च" इत्यमरः। (3) “निर्देशः स्वरूपाभिधानम्, स्वामित्वमाधिपत्यम्, साधनमुत्पत्तिनिमित्तम्, अधिकरणमधिष्ठानम्, स्थिति: कालपरिच्छेदः, विधानं प्रकारः ।"-सर्वार्थसि०१७। (4) उत्तररूप अनुयोग इति / (5) “सदित्यस्तित्वनिर्देशः / संख्या भेदगणना। क्षेत्रं निवासो वर्तमानकालविषयः। तदेव स्पर्शनं त्रिकालगोचरम् / कालो द्विविधः मुख्यो व्यावहारिकश्च / अन्तरं विरहकालः। भाव औपशमिकादिलक्षणः / अल्पबहुत्वमन्योन्यापेक्षया विशेषप्रतिपत्तिः।"-सर्वार्थसि० 138 / ___1 च वर्तते ब० // 2 'पुनः' नास्ति आ० / 3-द्रव्यादिः स्व-आ० / 4 पृष्टाः श्र० / / निर्जाते श्र०। 6-लक्षणं कि-ब०। 7 प्रश्न जीवादीनामित्यु-ब०। 8-स्वव्याख्याप-श्र०। 9 किमिति ब०। 10-प्यताम् श्र०।