________________ 42. 36] हरिवंशे [43. 10 एतद्युष्मत्प्रवृत्तेन दैवेन परिणामिता। जगद्धिताथं कुरुत राज्ञां हेतुं रणक्षये // 51 यद्यस्ति मयि कारुण्यं भारशैथिल्यकारणात् / एकश्चक्रधरः श्रीमानभयं मे प्रयच्छतु // 52 यमहं भारसंतप्ता संप्राप्ता शरणैषिणी / भारो यद्यवरोप्तव्यो विष्णुरेव ब्रवीतु माम् // 55 इति श्रीहरिवंशे द्विचत्वारिंशोऽध्यायः // 42 // सांप्रतं खिद्यमानाहमेनमेव गदाधरम् / अनाथा जगतो नाथं शरण्यं शरणं गता / / 36 / अग्निः सुवर्णस्य गुरुर्गवां सूर्यो गुरुः स्मृतः / नक्षत्राणां गुरुः सोमो मम नारायणो गुरुः / / 37 यदहं धारयाम्येका जगत्स्थावरजंगमम् / मया धृतं धारयते सर्वमेतद्गदाधरः // 38 जामदग्न्येन रामेण भारावतरणेप्सया। रोषात्रिःसप्तकृत्वोऽहं क्षत्रियैर्विप्रयोजिता // 39 सास्मि वेद्यां समारोप्य तर्पिता नृपशोणितैः / भार्गवेण पितुः श्राद्धे कश्यपाय निवेदिता // 40 मांसमेदोस्थिदुर्गन्धा दिग्धा क्षत्रियशोणितैः / रजस्वलेव युवतिः कश्यपं समुपस्थिता // 41 स मां ब्रह्मर्षिरप्याह किमुर्वि त्वमवाङ्मुखी / वीरपत्नीव्रतमिदं वीरपलि निषेवसे // 42 साहं विज्ञापितवती कश्यपं लोकभावनम् / पतयो मे हता ब्रह्मन्भार्गवेण महात्मना / / 43 साहं विहीना विक्रान्तैः क्षत्रियैः शस्त्रवृत्तिभिः / विधवा शून्यनगरा न धारयितुमुत्सहे // 44 तन्मह्यं दीयतां भर्ता भगवंस्त्वत्समो नृपः।। रक्षेत्सग्रामनगरां यो मां सागरमालिनीम् // 45 स श्रुत्वा भगवान्वाक्यं बाढमित्यब्रवीत्प्रभुः / ततो मां मानवेन्द्राय मनवे संप्रयच्छत // 46 सा मनुप्रभवं पुण्यं प्राप्येक्ष्वाकुकुलं महत् / विपुलेनास्मि कालेन पार्थिवात्पार्थिवं गता॥ 47 एवं दत्तास्मि मनवे मानवेन्द्राय धीमते / भुक्ता राजकुलैश्चापि महर्षिकुलसंमितैः // 48 बहवः क्षत्रियाः शूरा मां जित्वा दिवमाश्रिताः / ते स्म कालवशं प्राप्य मय्येव प्रलयं गताः // 49 मत्कृते विग्रहा लोके वृत्ता वर्तन्त एव च। क्षत्रियाणां बलवता संग्रामेष्वनिवर्तिनाम् // 50 वैशंपायन उवाच / ते श्रुत्वा पृथिवीवाक्यं सर्व एव दिवौकसः / तदर्थकृत्यं संचिन्त्य पितामहमथाब्रुवन् // 1 भगवन्क्रियतामस्या धरण्या भारसंनतिः / शरीरकर्ता लोकानां त्वं हि लोकस्य चेश्वरः // 2 यत्कर्तव्यं महेन्द्रेण यमेन वरुणेन च / यद्वा कार्य धनेशेन स्वयं नारायणेन वा // 3 यद्वा चन्द्रमसा कार्य भास्करेणानिलेन वा। आदित्यैर्वसुभिर्वापि रुदैर्वा लोकभावनैः // 4 . अश्विभ्यां वा सुराग्र्याभ्यां साध्यैर्वा त्रिदिवालयैः / बृहस्पत्युशनोभ्यां वा कालेन कलिनापि वा // 5 महेश्वरेण वा ब्रह्मन्विशाखेन गुहेन वा / यक्षराक्षसगन्धर्वैश्चारणैर्वा महोरगैः // 6 पर्वतैः शैलमुख्यैर्वा सागरैर्वा महोर्मिभिः / गङ्गामुखाभिर्दिव्याभिः सरिद्भिर्वा सुरेश्वर // 7 क्षिप्रमाज्ञापय विभो कथमंशः प्रयुज्यताम् / यदि ते पार्थिवं कार्य कार्य पार्थिवविग्रहे // 8 कथमंशावतरणं कुर्मः सर्वे पितामह / अन्तरिक्षगता ये च पृथिव्यां ये च पार्थिवाः // 9 सदस्यानां च विप्राणां पार्थिवानां कुलेषु च / अयोनिजाश्चापि तनूः सृजाम जगतीतले // 10