________________ हरिवंशः नारायणं नमस्कृत्य नरं चैव नरोत्तमम् / देवी सरस्वतीं चैव ततो जयमुदीरयेत् // शौनक उवाच / सौते सुमहदाख्यानं भवता परिकीर्तितम् / भारतानां च सर्वेषां पार्थिवानां तथैव च // 1 देवानां दानवानां च गन्धर्वोरगरक्षसाम् / दैत्यानामथ सिद्धानां गुह्यकानां तथैव च // 2 अत्यद्भुतानि कर्माणि विक्रमा धर्मनिश्चयाः। विचित्राश्च कथायोगा जन्म चाग्र्यमनुत्तमम् // 3 कथितं भवता पुण्यं पुराणं श्लक्ष्णया गिरा। मनःकर्णसुखं तन्मां प्रीणात्यमृतसंमितम् // 4 तत्र जन्म कुरूणां वै त्वयोक्तं लोमहर्षणे / न तु वृष्ण्यन्धकानां वै तद्भवान्प्रब्रवीतु मे // 5 सूत उवाच / जनमेजयेन यत्पृष्टः शिष्यो व्यासस्य धीमतः / तत्तेऽहं संप्रवक्ष्यामि वृष्णीनां वंशमादितः // 6 श्रुत्वेतिहासं कात्स्न्येन भरतानां स भारतः / जनमेजयो महाप्राज्ञो वैशंपायनमब्रवीत् // 7 महाभारतमाख्यानं बह्वथ बहुविस्तरम् / कथितं भवता विप्र विस्तरेण मया श्रुतम् / / 8 तत्र शूराः समाख्याता बहवः पुरुषर्षभाः। नामभिः कर्मभिश्चैव वृष्ण्यन्धकमहारथाः // 9 तेषां कर्मावदातानि त्वयोक्तानि द्विजोत्तम। तत्र तत्र समासेन विस्तरेणैव चाभिभो // 10 न च मे तृप्तिरस्तीह कीर्त्यमाने पुरातने / एकश्च मे मतो राशिर्वृष्णयः पाण्डवास्तथा // 11 भवांश्च वंशकुशलस्तेषां प्रत्यक्षदर्शिवान् / कथयस्व कुलं तेषां विस्तरेण तपोधन // 12 यस्य यस्यान्वये ये ये तांस्तानिच्छामि वेदितुम् / तेषां पूर्व विसृष्टिं च विचित्रामा प्रजापतेः // 13 सूत उवाच / सत्कृत्य परिपृष्टस्तु स महात्मा महातपाः / विस्तरेणानुपूर्त्या च कथयामास तां कथाम् // 14 वैशंपायन उवाच / शृणु राजन्कथां दिव्यां पुण्यां पापप्रणाशिनीम् / कथ्यमानां मया चित्रां बह्वां श्रुतिसंमिताम् // 15 यश्चैनां धारयेत्तात शृणुयाद्वाप्यभीक्ष्णशः / स्ववंशधारणं कृत्वा स्वर्गलोके महीयते // 16 अव्यक्तं कारणं यत्तन्नित्यं सदसदात्मकम् / प्रधानं पुरुषं तस्मान्निर्ममे विश्वमीश्वरः // 17 तं वै विद्धि महाराज ब्रह्माणममितौजसम् / स्रष्टारं सर्वभूतानां नारायणपरायणम् // 18 अहंकारस्तु महतस्तस्माद्भूतानि जज्ञिरे / भूतभेदाश्च भूतेभ्य इति सर्गः सनातनः // 19 विस्तरावयवं चैव यथाप्रज्ञं यथाश्रुतम् / - -