________________ 13. 47. 13] महाभारते [13. 47. 40 क्षत्रियायास्तु यः पुत्रो ब्राह्मणः सोऽप्यसंशयः / स तु भातृविशेषेण त्रीनंशान्हर्तुमर्हति // 13 वर्णे तृतीये जातस्तु वैश्यायां ब्राह्मणादपि / द्विरंशस्तेन हर्तव्यो ब्राह्मणवाद्युधिष्ठिर // 14 शूद्रायां ब्राह्मणाज्जातो नित्यादेयधनः स्मृतः / अल्पं वापि प्रदातव्यं शूद्रापुत्राय भारत // 15 दशधा प्रविभक्तस्य धनस्यैष भवेत्क्रमः / सवर्णासु तु जातानां समान्भागान्प्रकल्पयेत् // 16 भब्राह्मणं तु मन्यन्ते शूद्रापुत्रमनैपुणात् / त्रिषु वर्णेषु जातो हि ब्राह्मणाद्राह्मणो भवेत् // 17 स्मृता वर्णाश्च चत्वारः पञ्चमो नाधिगम्यते / हरेत्तु दशमं भागं शूद्रापुत्रः पितुर्धनात् / / 18 तत्तु दत्तं हरेत्पित्रा नादत्तं हर्तुमर्हति / अवश्यं हि धनं देयं शूद्रापुत्राय भारत / / 19 भानृशंस्यं परो धर्म इति तस्मै प्रदीयते / यत्र तत्र समुत्पन्नो गुणायैवोपकल्पते // 20 यदि वाप्येकपुत्रः स्यादपुत्रो यदि वा भवेत् / नाधिकं दशमादद्याच्छुद्रापुत्राय भारत // 21 त्रैवार्षिकाद्यदा भक्तादधिकं स्याहिजस्य तु / यजेत तेन द्रव्येण न वृथा साधयेद्धनम् // 22 त्रिसाहस्रपरो दायः स्त्रियो देयो धनस्य वै / तञ्च भ; धनं दत्तं नादत्तं भोक्तुमर्हति / / 23 स्त्रीणां तु पतिदायाद्यमुपभोगफलं स्मृतम् / नापहार स्त्रियः कुर्युः पतिवित्तात्कथंचन // 24 स्त्रियास्तु यद्भवेद्वित्तं पित्रा दत्तं युधिष्ठिर।। ब्राह्मण्यास्तद्धरेत्कन्या यथा पुत्रस्तथा हि सा। सा हि पुत्रसमा राजन्विहिता कुरुनन्दन // 25 एवमेतत्समुद्दिष्टं धर्मेषु भरतर्षभ / एत्तद्धर्ममनुस्मृत्य न वृथा साधयेद्धनम् / / 26 युधिष्ठिर उवाच / शूद्रायां ब्राह्मणाज्जातो यद्यदेयधनः स्मृतः। . केन प्रतिविशेषेण दशमोऽप्यस्य दीयते // 27 ब्राह्मण्यां ब्राह्मणाज्जातो ब्राह्मणः स्यान्न संशयः। क्षत्रियायां तथैव स्याद्वैश्यायामपि चैव हि // 28 कस्मात्ते विषमं भागं भजेरन्नृपसत्तम / . यदा सर्वे त्रयो वर्णास्त्वयोक्ता ब्राह्मणा इति // 29 भीष्म उवाच / दारा इत्युच्यते लोके नाम्नैकेन परंतप / प्रोक्तेन चैकनानायं विशेषः सुमहान्भवेत् // 30 तिस्रः कृत्वा पुरो भार्याः पश्चाद्विन्देत ब्राह्मणीम् / सा ज्येष्ठा सा च पूज्या स्यात्सा च ताभ्यो गरीयसी॥ स्नानं प्रसाधनं भर्तुर्दन्तधावनमञ्जनम् / हव्यं कव्यं च यच्चान्यद्धर्मयुक्तं भवेद्गृहे // 32 न तस्यां जातु तिष्ठन्त्यामन्या तत्कर्तुमर्हति / . ब्राह्मणी त्वेव तत्कुर्याद्ब्राह्मणस्य युधिष्ठिर / / 33 अन्नं पानं च माल्यं च वासांस्याभरणानि च / ब्राह्मण्यै तानि देयानि भर्तुः सा हि गरीयसी / मनुनाभिहितं शास्त्रं यच्चापि कुरुनन्दन / तत्राप्येष महाराज दृष्टो धर्मः सनातनः // 35 अथ चेदन्यथा कुर्याद्यदि कामाद्युधिष्ठिर / यथा ब्राह्मणचण्डालः पूर्वदृष्टस्तथैव सः // 36 ब्राह्मण्याः सद्दशः पुत्रः क्षत्रियायाश्च यो भवेत् / राजन्विशेषो नास्त्यत्र वर्णयोरुभयोरपि // 37 न तु जात्या समा लोके ब्राह्मण्याः क्षत्रिया भवेत् / ब्राह्मण्याः प्रथमः पुत्रो भूयान्स्याद्राजसत्तम / भूयोऽपि भूयसा हायं पितृवित्तायुधिष्ठिर // 38 यथा न सदृशी जातु ब्राह्मण्याः क्षत्रिया भवेत् / क्षत्रियायास्तथा वैश्या न जातु सदृशी भवेत् // श्रीश्च राज्यं च कोशश्च क्षत्रियाणां युधिष्ठिर / / -2576