________________ 12. 271. 30] शान्तिपर्व [12. 271. 45 वापीसहस्राणि बहूनि दैत्य // 30 वाप्यः पुनर्योजनविस्तृतास्ताः क्रोशं च गम्भीरतयावगाढाः / आयामतः पञ्चशताश्च सर्वाः प्रत्येकशो योजनतः प्रवृद्धाः // 31 वाप्या जलं क्षिप्यति वालकोट्या त्वह्ना सकृच्चाप्यथ न द्वितीयम् / तासां क्षये विद्धि कृतं विसर्ग . संहारमेकं च तथा प्रजानाम् // 32 षड्जीववर्णाः परमं प्रमाणं कृष्णो धूम्रो नीलमथास्य मध्यम् / रक्तं पुनः सह्यतरं सुखं तु हारिद्रवर्ण सुसुखं च शुक्लम् // 33 परं तु शुक्लं विमलं विशोकं गतक्लमं सिध्यति दानवेन्द्र। गत्वा तु योनिप्रभवानि दैत्य सहस्रशः सिद्धिमुपैति जीवः // 34 गतिं च यां दर्शनमाह देवो गत्वा शुभं दर्शनमेव चाह / गतिः पुनर्वर्णकृता प्रजानां वर्णस्तथा कालकृतोऽसुरेन्द्र // 35 शतं सहस्राणि चतुर्दशेह . परा गतिर्जीवगुणस्य दैत्य / आरोहणं तत्कृतमेव विद्धि स्थानं तथा निःसरणं च तेषाम् // 36 कृष्णस्य वर्णस्य गतिर्निकृष्टा स मज्जते नरके पच्यमानः / स्थानं तथा दुर्गतिभिस्तु तस्य प्रजाविसर्गान्सुबहून्वदन्ति // 37 शतं सहस्राणि ततश्चरित्वा म.भा. 295 -2353 प्राप्नोति वर्ण हरितं तु पश्चात् / स चैव तस्मिन्निवसत्यनीशो युगक्षये तमसा संवृतात्मा // 38 स वै यदा सत्त्वगुणेन युक्त स्तमो व्यपोहन्घटते स्वबुद्धया स लोहितं वर्णमुपैति नीलो मनुष्यलोके परिवर्तते च // 39 स तत्र संहारविसर्गमेव ___ स्वकर्मजैर्बन्धनैः क्लिश्यमानः / ततः स हारिद्रमुपैति वर्ण ___ संहारविक्षेपशते व्यतीते // 40 हारिद्रवर्णस्तु प्रजाविसर्गा न्सहस्रशस्तिष्ठति संचरन्वै / अविप्रमुक्तो निरये च दैत्य ततः सहस्राणि दशापराणि // 41 गतीः सहस्राणि च पञ्च तस्य चत्वारि संवर्तकृतानि चैव / विमुक्तमेनं निरयाञ्च विद्धि सर्वेषु चान्येषु च संभवेषु / / 42 स देवलोके विहरत्यभीक्ष्णं ततश्युतो मानुषतामुपैति / संहारविक्षेपशतानि चाष्टौ मर्येषु तिष्ठनमृतत्वमेति // 43 सोऽस्मादथ भ्रश्यति कालयोगा स्कृष्णे तले तिष्ठति सर्वकष्टे / यथा त्वयं सिध्यति जीवलोक स्तत्तेऽभिधास्याम्यसुरप्रवीर // 44 दैवानि स व्यूहशतानि सप्त ___ रक्तो हरिद्रोऽथ तथैव शुक्लः। संश्रित्य संधावति शुक्लमेत-