________________ 2. 212. 29 ] शान्तिपर्व [ 12. 212. 50 तत्र यत्प्रीतिसंयुक्तं काये मनसि वा भवेत् / वर्तते सात्त्विको भाव इत्यपेक्षेत तत्तथा // 29 यत्तु संतापसंयुक्तमप्रीतिकरमात्मनः / प्रवृत्तं रज इत्येव ततस्तदभिचिन्तयेत् // 30 अथ यन्मोहसंयुक्तं काये मनसि वा भवेत् / अप्रतय॑मविज्ञेयं तमस्तदुपधारयेत् // 31 तद्धि श्रोत्राश्रयं भूतं शब्दः श्रोत्रं समाश्रितः / नोभयं शब्दविज्ञाने विज्ञानस्येतरस्य वा // 32 एवं त्वक्चक्षुषी जिह्वा नासिका चैव पञ्चमी / स्पर्शे रूपे रसे गन्धे तानि चेतो मनश्च तत् // 33 वकर्मयुगपद्भावो दशस्वेतेषु तिष्ठति / चित्तमेकादशं विद्धि बुद्धिादशमी भवेत् // 34 तेषामयुगपद्भावे उच्छेदो नास्ति तामसः / आस्थितो युगपद्भावे व्यवहारः स लौकिकः // 35 इन्द्रियाण्यवसृज्यापि दृष्ट्वा पूर्व श्रुतागमम् / चिन्तयन्नानुपर्येति त्रिभिरेवान्वितो गुणैः // 36 यत्तमोपहतं चित्तमाशु संचारमध्रुवम् / करोत्युपरमं काले तदाहुस्तामसं सुखम् // 37 यद्यदागमसंयुक्तं न कृत्स्नमुपशाम्यति / अथ तत्राप्युपादत्ते तमो व्यक्तमिवानृतम् // 38 एवमेष प्रसंख्यातः स्वकर्मप्रत्ययी गुणः / कथंचिद्वर्तते सम्यक्केषांचिद्वा न वर्तते / / 39 एवमाहुः समाहारं क्षेत्रमध्यात्मचिन्तकाः / स्थितो मनसि यो भावः सवै क्षेत्रज्ञ उच्यते // 40 एवं सति क उच्छेदः शाश्वतो वा कथं भवेत् / स्वभावाद्वर्तमानेषु सर्वभूतेषु हेतुतः // 41 यथार्णवगता नद्यो व्यक्ती हति नाम च / न च स्वतां नियच्छन्ति तादृशः सत्त्वसंक्षयः॥४२ एवं सति कुतः संज्ञा प्रेत्यभावे पुनर्भवेत् / प्रतिसंमिश्रिते जीवे गृह्यमाणे च मध्यतः // 43 - 2277 इमां तु यो वेद विमोक्षबुद्धि___मात्मानमन्विच्छति चाप्रमत्तः / न लिप्यते कर्मफलैरनिष्टैः ___ पत्रं बिसस्येव जलेन सिक्तम् // 44 दृढैश्च पाशैर्बहुभिर्विमुक्तः प्रजानिमित्तैरपि दैवतैश्च / यदा ह्यसौ सुखदुःखे जहाति ___ मुक्तस्तदायां गतिमेत्यलिङ्गः। श्रुतिप्रमाणागममङ्गलैश्च __ शेते जरामृत्युभयादतीतः // 45 क्षीणे च पुण्ये विगते च पापे ततोनिमित्ते च फले विनष्टे / अलेपमाकाशमलिङ्गमेव मास्थाय पश्यन्ति महद्ध्यसक्ताः // 46 यथोर्णनाभिः परिवर्तमान स्तन्तुक्षये तिष्ठति पात्यमानः / तथा विमुक्तः प्रजहाति दुःखं विध्वंसते लोष्ट इवाद्रिमर्छन् // 47 यथा रुरुः शृङ्गमथो पुराणं __ हित्वा त्वचं वाप्युरगो यथावत् / विहाय गच्छत्यनवेक्षमाण___ स्तथा विमुक्तो विजहाति दुःखम् // 48 द्रुमं यथा वाप्युदके पतन्त मुत्सृज्य पक्षी प्रपतत्यसक्तः। तथा ह्यसौ सुखदुःखे विहाय ___ मुक्तः पराद्धां गतिमेत्यलिङ्गः // 49 . अपि च भवति मैथिलेन गीतं नगरमुपाहितमग्निनाभिवीक्ष्य / न खलु मम तुषोऽपि दह्योऽत्र स्वयमिदमाह किल स्म भूमिपालः // 50 -