________________ 10. 7. 32] सौप्तिकपर्व [10. 7. 61 जयन्तः प्लवन्तश्च वल्गन्तश्च महाबलाः // 32 भावन्तो जवनाश्चण्डाः पवनोद्भूतमूर्धजाः / मत्ता इव महानागा विनदन्तो मुहुर्मुहुः 33 मुमीमा घोररूपाश्च शूलपट्टिशपाणयः / नानाविरागवसनाश्चित्रमाल्यानुलेपनाः / / 34 रत्नचित्राङ्गदधराः समुद्यतकरास्तथा / इन्तारो द्विषतां शूराः प्रसह्यासह्यविक्रमाः // 35 / पातारोऽसृग्वसाद्यानां मांसात्रकृतभोजनाः। चूडालाः कर्णिकालाश्च प्रकृशाः पिठरोदराः // 36 अतिहखातिदीर्घाश्च प्रबलाश्चातिभैरवाः / विकटाः काललम्बोष्ठा बृहच्छेफास्थिपिण्डिकाः // 37 महार्हनानामुकुटा मुण्डाश्च जटिलाः परे। सार्केन्दुग्रहनक्षत्रां द्यां कुर्युर्ये महीतले // 38 छत्सहेरंश्च ये हन्तुं भूतग्रामं चतुर्विधम् / ये च वीतभया नित्यं हरस्य भ्रुकुटीभटाः // 39 कामकारकराः सिद्धास्त्रैलोक्यस्येश्वरेश्वराः / नित्यानन्दप्रमुदिता वागीशा वीतमत्सराः // 40 प्राप्याष्टगुणमैश्वर्यं ये न यान्ति च विस्मयम् / येषां विस्मयते नित्यं भगवान्कर्मभिर्हरः // 41 मनोवाकर्मभिर्भक्तैर्नित्यमाराधितश्च यैः। मनोवाकर्मभिर्भक्तान्पाति पुत्रानिवौरसान् / / 42 पिबन्तोऽसृग्वसास्त्वन्ये क्रुद्धा ब्रह्मद्विषां सदा / चतुर्विंशात्मकं सोमं ये पिबन्ति च नित्यदा // 43 श्रुतेन ब्रह्मचर्येण तपसा च दमेन च / ये समाराध्य शूलाङ्कं भवसायुज्यमागताः // 44 येरात्मभूतैर्भगवान्पार्वत्या च महेश्वरः / सह भूतगणान्भुङ्क्ते भूतभव्यभवत्प्रभुः // 45 नानाविचित्रहसितक्ष्वेडितोत्क्रुष्टगर्जितैः। संनादयन्तस्ते विश्वमश्वत्थामानमभ्ययुः / / 46 संस्तुवन्तो महादेवं भाः कुर्वाणाः सुवर्चसः। विवर्धयिषवो द्रौणेर्महिमानं महात्मनः // 47 जिज्ञासमानास्तत्तेजः सौप्तिकं च दिदृक्षवः / भीमोग्रपरिघालातशूलपट्टिशपाणयः / घोररूपाः समाजग्मुर्भूतसंघाः समन्ततः // 48 जनयेयुर्भयं ये स्म त्रैलोक्यस्यापि दर्शनात् / तान्प्रेक्षमाणोऽपि व्यथां न चकार महाबलः // 49 अथ द्रौणिर्धनुष्पाणिवद्धगोधाङ्गुलित्रवान् / स्वयमेवात्मनात्मानमुपहारमुपाहरत् // 50 धनूंषि समिधस्तत्र पवित्राणि शिताः शराः / हविरात्मवतश्चात्मा तस्मिन्भारत कर्मणि // 51 ततः सौम्येन मन्त्रेण द्रोणपुत्रः प्रतापवान् / उपहारं महामन्युरथात्मानमुपाहरत् // 52 तं रुद्रं रोद्रकर्माणं रौद्रैः कर्मभिरच्युतम् / अभिष्टुत्य महात्मानमित्युवाच कृताञ्जलिः // 53 इममात्मानमद्याहं जातमाङ्गिरसे कुले / अग्नौ जुहोमि भगवन्प्रतिगृह्णीष्व मां बलिम् // 54 भवद्भक्त्या महादेव परमेण समाधिना / अस्यामापदि विश्वात्मन्नुपाकुर्मि तवाग्रतः / / 55 त्वयि सर्वाणि भूतानि सर्वभूतेषु चासि वै / गुणानां हि प्रधानानामेकत्वं त्वयि तिष्ठति // 56 सर्वभूताशय विभो हविर्भूतमुपस्थितम् / प्रतिगृहाण मां देव यद्यशक्याः परे मया // 57 इत्युक्त्वा द्रौणिरास्थाय तां वेदी दीप्तपावकाम् / संत्यक्तात्मा समारुह्य कृष्णवर्त्मन्युपाविशत् // 58 तमूर्ध्वबाहुं निश्चेष्टं दृष्ट्वा हविरुपस्थितम् / अब्रवीद्भगवान्साक्षान्महादेवो हसन्निव // 59 सत्यशौचार्जवत्यागैस्तपसा नियमेन च / क्षान्त्या भक्त्या च धृत्या च बुद्ध्या च वचसा तथा / यथावदहमाराद्धः कृष्णेनाक्लिष्टकर्मणा / तस्मादिष्टतमः कृष्णादन्यो मम न विद्यते // 61 - 1941