________________ 8. 64. 28 ] महाभारते [8. 65. 10 ध्रुवं नरेन्द्रेन्द्र तथा त्वमाचर // 28 स एवमुक्तः सुहृदा वचो हितं विचिन्त्य निःश्वस्य च दुर्मनाब्रवीत् / यथा भवानाह सखे तथैव त न्ममापि च ज्ञापयतो वचः शृणु // 29 निहत्य दुःशासनमुक्तवान्बहु __ प्रसह्य शार्दूलवदेष दुर्मतिः / वृकोदरस्तद्धृदये मम स्थितं न तत्परोक्षं भवतः कुतः शमः // 30 / न चापि कर्णं गुरुपुत्र संस्तवा दुपारमेत्यर्हसि वक्तुमच्युत / श्रमेण युक्तो महताद्य फल्गुन स्तमेष कर्णः प्रसभं हनिष्यति // 31 समेवमुक्त्वाभ्यनुनीय चासक त्तवात्मजः स्वाननुशास्ति सैनिकान् / समानताभिद्रवताहितानिमा न्सबाणशब्दान्किमु जोषमास्यते // 32 इति श्रीमहाभारते कर्णपर्वणि चतुःषष्टितमोऽध्यायः // 6 // बलाहकेनेव यथा बलाहको यदृच्छया वा गिरिणा गिरिर्यथा / तथा धनुातलनेमिनिस्वनौ ____ समीयतुस्ताविषुवर्षवर्षिणौ // 3 प्रवृद्धशृङ्गद्रुमवीरुदोषधी प्रवृद्धनानाविधपर्वतौकसौ। यथाचलौ वा गलितौ महाबलौ तथा महास्नैरितरेतरं नतः // 4 स संनिपातस्तु तयोर्महानभू सुरेशवैरोचनयोर्यथा पुरा। .. शरैर्विभुमाङ्गनियन्तृवाहनः सुदुःसहोऽन्यः पटुशोणितोदकः // 5 प्रभूतपद्मोत्पलमत्स्यकच्छपौ ___ महादौ पक्षिगणानुनादितौ / सुसंनिकृष्टावनिलोद्धतौ यथा ___ तथा रथौ तौ ध्वजिनौ समीयतुः // 6 उभौ महेन्द्रस्य समानविक्रमा वुभौ महेन्द्रप्रतिमौ महारथौ। महेन्द्रवनप्रतिमैश्च सायकै__ महेन्द्रवृत्राविव संप्रजह्रतुः // 7 . सनागपत्त्यश्वरथे उभे बले विचित्रवर्णाभरणाम्बरस्रजे। चकम्पतुश्चोन्नमतः स्म विस्मया द्वियद्गताश्चार्जुनकर्णसंयुगे // 8 भुजाः सवज्राङ्गुलयः समुच्छ्रिताः ससिंहनादा हृषितैर्दिदृक्षुभिः / यदार्जुनं मत्तमिव द्विपो द्विपं समभ्ययादाधिरथिर्जिघांसया // 9. अभ्यक्रोशन्सोमकास्तत्र पार्थं त्वरस्व याह्यर्जुन विध्य कर्णम् / - संजय उवाच। तौ शङ्खभेरीनिनदे समृद्धे ___ समीयतुः श्वेतहयौ नराग्यौ। बैकर्तनः सूतपुत्रोऽर्जुनश्च दुर्मत्रिते तव पुत्रस्य राजन् // 1 यथा गजौ हैमवतौ प्रभिन्नौ ___ प्रगृह्य दन्ताविव वाशितार्थे / तथा समाजग्मतुरुप्रवेगौ धनंजयश्चाधिरथिश्च वीरौ // 2 - 1788