________________ 8. 64. 14 ] कर्णपर्व [8. 64. 28 कृपश्च शारद्वतसूनुना सह / महारथाः पश्च धनंजयाच्युतौ शरैः शरीरान्तकरैरताडयन् // 14 धनूंषि तेषामिषुधीन्हयान्ध्वजा रथांश्च सूतांश्च धनंजयः शरैः। समं च चिच्छेद पराभिनच ता शरोत्तमैदशभिश्च सूतजम् // 15 अथाभ्यधावंस्त्वरिताः शतं रथाः शतं च नागार्जुनमाततायिनः / शकास्तुखारा यवनाश्च सादिनः सहैव काम्बोजवरैर्जिघांसवः // 16 वरायुधान्पाणिगतान्करैः सह क्षुरैन्यकृन्तस्त्वरिताः शिरांसि च / हयांश्च नागांश्च रथांश्च युध्यतां धनंजयः शत्रुगणं तमक्षिणोत् // 17 खतोऽन्तरिक्षे सुरतूर्यनिस्वनाः ससाधुवादा हृषितैः समीरिताः / निपेतुरप्युत्तमपुष्पवृष्टयः सुरूपगन्धाः पवनेरिताः शिवाः // 18 तदद्भुतं देवमनुष्यसाक्षिक समीक्ष्य भूतानि विसिष्मियुनूप / तवात्मजः सूतसुतश्च न व्यथा न विस्मयं जग्मतुरेकनिश्चयौ // 19 अथाब्रवीद्रोणसुतस्तवात्मज करं करेण प्रतिपीड्य सान्त्वयन् / प्रसीद दुर्योधन शाम्य पाण्डवै रलं विरोधेन धिगस्तु विग्रहम् // 20 हतो गुरुर्ब्रह्मसमो महास्त्रवि त्तथैव भीष्मप्रमुखा नरर्षभाः। अहं त्ववध्यो मम चापि मातुलः -1787 प्रशाधि राज्यं सह पाण्डवैश्विरम् // 21 धनंजयः स्थास्यति वारितो मया ___ जनार्दनो नैव विरोधमिच्छति / युधिष्ठिरो भूतहिते सदा रतो वृकोदरस्तद्वशगस्तथा यमौ // 22 त्वया च पाथैश्च परस्परेण प्रजाः शिवं प्राप्नुयुरिच्छति त्वयि / व्रजन्तु शेषाः स्वपुराणि पार्थिवा निवृत्तवैराश्च भवन्तु सैनिकाः / / 23 न चेद्वचः श्रोष्यसि मे नराधिप ध्रुवं प्रतप्तासि हतोऽरिभिर्युधि / इदं च दृष्टं जगता सह त्वया ___ कृतं यदेकेन किरीटमालिना। यथा न कुर्याद्वलभिन्न चान्तको न च प्रचेता भगवान्न यक्षराट् // 24 अतोऽपि भूयांश्च गुणैर्धनंजयः स चाभिपत्स्यत्यखिलं वचो मम / तवानुयात्रां च तथा करिष्यति प्रसीद राजञ्जगतः शमाय वै // 25 ममापि मानः परमः सदा त्वयि ब्रवीम्यतस्त्वां परमाच्च सौहृदात् / निवारयिष्यामि हि कर्णमप्यहं यदा भवान्सप्रणयो भविष्यति // 26 वदन्ति मित्रं सहजं विचक्षणा स्तथैव साना च धनेन चार्जितम् / प्रतापतश्चोपनतं चतुर्विधं तदस्ति सर्वं स्वयि पाण्डवेषु च // 27 निसर्गतस्ते तव वीर बान्धवाः पुनश्च साम्ना च समाप्नुहि स्थिरम् / त्वयि प्रसन्ने यदि मित्रतामियु-