________________ 5. 47. 46] उद्योगपर्व [5. 47. 61 तदा तप्स्यत्यकृतात्मा स मन्दः // 46 यदा मौास्तलनिष्पेषमुग्रं महाशब्दं वज्रनिष्पेषतुल्यम् / विधूयमानस्य महारणे मया गाण्डीवस्य श्रोष्यति मन्दबुद्धिः // 47 तदा मूढो धृतराष्ट्रस्य पुत्र___ स्तप्ता युद्धे दुर्मतिर्दुःसहायः / दृष्ट्वा सैन्यं बाणवर्षान्धकारं प्रभज्यन्तं गोकुलवद्रणाने // 48 . बलाहकादुच्चरन्तीव विद्यु त्सहस्रन्नी द्विषतां संगमेषु / अस्थिच्छिदो मर्मभिदो वमेच्छरां स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् / / 49 यदा द्रष्टा ज्यामुखाद्वाणसंघा- गाण्डीवमुक्तान्पततः शिताग्रान् / नागान्हयान्वर्मिणश्चाददानां स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् // 50 यदा मन्दः परबाणान्विमुक्ता न्ममेषुभिह्रियमाणान्प्रतीपम् / तिर्यग्विद्धांश्छिद्यमानान्क्षुरप्रै स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् // 51 यदा विपाठा मद्भुजविप्रमुक्ता द्विजाः फलानीव महीरुहाग्रात् / प्रच्छेत्तार उत्तमाङ्गानि यूनां तदा युद्धं धार्तराष्ट्रोऽन्यतप्स्यत् // 52 यदा द्रष्टा पततः स्यन्दनेभ्यो महागजेभ्योऽश्वगतांश्च योधान् / शरैर्हतान्पातितांश्चैव रङ्गे तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् // 53 पदातिसंघान्रथसंघान्समन्ता -957 व्यात्ताननः काल इवाततेषुः / प्रणोत्स्यामि ज्वलितैर्बाणवषैः शत्रूस्तदा तप्स्यति मन्दबुद्धिः // 54 सर्वा दिशः संपतता रथेन रजोध्वस्तं गाण्डिवेनापकृत्तम् / यदा द्रष्टा स्वबलं संप्रमूढं ___ तदा पश्चात्तप्स्यति मन्दबुद्धिः॥५५ कांदिग्भूतं छिन्नगात्रं विसंज्ञं दुर्योधनो द्रक्ष्यति सर्वसैन्यम् / / हताश्ववीराग्र्यनरेन्द्रनागं पिपासितं श्रान्तपत्रं भयार्तम् // 56 आर्तस्वरं हन्यमानं हतं च विकीर्णकेशास्थिकपालसंघम् / प्रजापतेः कर्म यथार्धनिष्ठितं तदा दृष्ट्वा तप्स्यते मन्दबुद्धिः // 57 यदा रथे गाण्डिवं वासुदेवं दिव्यं शङ्ख पाञ्चजन्यं हयांश्च / तूणावक्षय्यौ देवदत्तं च मां च द्रष्टा युद्धे धार्तराष्ट्रः समेतान् // 58 उद्वर्तयन्दस्युसंघान्समेता न्प्रवर्तयन्युगमन्ययुगान्ते। यदा धक्ष्याम्यग्निवत्कौरवेयां स्तदा तप्ता धृतराष्ट्रः सपुत्रः॥ 59 सहभ्राता सहपुत्रः ससैन्यो भ्रष्टैश्वर्यः क्रोधवशोऽल्पचेताः। दर्पस्यान्ते विहिते वेपमानः पश्चान्मन्दस्तप्स्यति धार्तराष्ट्रः // 60 पूर्वाहे मां कृतजप्यं कदाचि___ द्विप्रः प्रोवाचोदकान्ते मनोज्ञम् / कर्तव्यं ते दुष्करं कर्म पार्थ -