________________ 6. 38. 24] भीष्मपर्व [6. 33. 38 व्यात्ताननं दीप्तविशालनेत्रम् / दृष्ट्वा हि त्वां प्रव्यथितान्तरात्मा धृति न विन्दामि शमं च विष्णो॥२४ दंष्ट्राकरालानि च ते मुखानि दृष्ट्वैव कालानलसंनिभानि। दिशो न जाने न लभे च शर्म प्रसीद देवेश जगन्निवास // 25 अमी च त्वां धृतराष्ट्रस्य पुत्राः सर्वे सहैवावनिपालसंधैः।. भीष्मो द्रोणः सूतपुत्रस्तथासौ सहास्मदीयैरपि योधमुख्यैः // 26 वक्त्राणि ते त्वरमाणा विशन्ति दंष्ट्राकरालानि भयानकानि। केचिद्विलमा दशनान्तरेषु संदृश्यन्ते चूर्णितैरुत्तमाङ्गैः॥ 27 यथा नदीनां बहवोऽम्बुवेगाः .. समुद्रमेवाभिमुखा द्रवन्ति / तथा तवामी नरलोकवीरा विशन्ति वक्त्राण्यभिविज्वलन्ति॥२८ यथा प्रदीप्तं ज्वलनं पतंगा विशन्ति नाशाय समृद्धवेगाः। तथैव नाशाय विशन्ति लोका स्तवापि वक्त्राणि समृद्धवेगाः // 29 लेलिह्यसे ग्रसमानः समन्ता ल्लोकान्समग्रान्वदनैवलद्भिः। तेजोभिरापूर्य जगत्समग्रं भासस्तवोग्राः प्रतपन्ति विष्णो॥३० आख्याहि मे को भवानुग्ररूपो नमोऽस्तु ते देववर प्रसीद। विज्ञातुमिच्छामि भवन्तमायं न हि प्रजानामि तव प्रवृत्तिम् // 31 श्रीभगवानुवाच / कालोऽस्मि लोकक्षयकृत्प्रवृद्धो लोकान्समाहर्तुमिह प्रवृत्तः। ऋतेऽपि त्वा न भविष्यन्ति सर्वे येऽवस्थिताः प्रत्यनीकेषु योधाः॥ 32 . तस्मात्त्वमुत्तिष्ठ यशो लभस्व जित्वा शत्रून्भुङ्ख राज्यं समृद्धम् / मयैवैते निहताः पूर्वमेव निमित्तमात्रं भव सव्यसाचिन् // 33 द्रोणं च भीष्मं च जयद्रथं च कर्णं तथान्यानपि योधवीरान् / मया हतांस्त्वं जहि मा व्यथिष्ठा युध्यस्व जेतासि रणे सपत्नान् / / 34 संजय उवाच / एतच्छ्रुत्वा वचनं केशवस्य ___कृताञ्जलिर्वेपमानः किरीटी / नमस्कृत्वा भूय एवाह कृष्णं सगद्दं भीतभीतः प्रणम्य // 35 अर्जुन उवाच / स्थाने हृषीकेश तव प्रकीर्त्या जगत्प्रहृष्यत्यनुरज्यते च / रक्षांसि भीतानि दिशो द्रवन्ति सर्वे नमस्यन्ति च सिद्धसंघाः / / 36 कस्माच्च ते न नमेरन्महात्म नगरीयसे ब्रह्मणोऽप्यादिकत्रे / अनन्त देवेश जगन्निवास त्वमक्षरं सदसत्तत्परं यत् // 37 त्वमादिदेवः पुरुषः पुराण स्त्वमस्य विश्वस्य परं निधानम् / - 1175 -