________________ 1. 132. 12] आरण्यकपर्व [3. 133.5 विचक्षणत्वं च भविष्यते नौ __ शिवश्व सौम्यश्च हि ब्रह्मघोषः // 19 तौ जग्मतुर्मातुलभागिनेयौ यज्ञं समृद्ध जनकस्य राज्ञः। अष्टावक्र: पथि राज्ञा समेत्य उत्सार्यमाणो वाक्यमिदं जगाद // 20 इति श्रीमहाभारते आरण्यकपर्वणि द्वात्रिंशदधिकशततमोऽध्यायः॥ 132 // न चास्ति ते वसु किंचित्प्रजाता येनाहमेतामापदं निस्तरेयम् // 12 उक्तस्त्वेवं भार्यया वै कहोडो वित्तस्यार्थे जनकमथाभ्यगच्छत् / स वै तदा वादविदा निगृह्य निमजितो बन्दिनेहाप्सु विप्रः // 13 उहालकस्तं तु तदा निशम्य सूतेन वादेऽप्सु तथा निमज्जितम् / उवाच तां तत्र ततः सुजाता___ मष्टावक्रे गृहितव्योऽयमर्थः // 14 ररक्ष सा चाप्यति तं सुमनं जातोऽप्येवं न स शुश्राव विप्रः / उद्दालकं पितृवच्चापि मेने ___ अष्टावक्रो भ्रातृवच्छेतकेतुम् // 15 ततो वर्षे द्वादशे श्वेतकेतु___रष्टावक्र पितुरङ्के निषण्णम् / अपाकर्षद्गृह्य पाणौ रुदन्तं ___ नायं तवाङ्कः पितुरित्युक्तवांश्च // 16 यत्तेनोक्तं दुरुक्तं तत्तदानीं हृदि स्थितं तस्य सुदुःखमासीत् / गृहं गत्वा मातरं रोदमानः ____ पप्रच्छेदं क नु तातो ममेति // 17 ततः सुजाता परमार्तरूपा शापाद्भीता सर्वमेवाचचक्षे। तद्वै तत्त्वं सर्वमाज्ञाय मातु___रित्यब्रवीच्छेतकेतुं स विप्रः // 18 गच्छाव यज्ञं जनकस्य राज्ञो बह्वाश्चर्यः श्रूयते तस्य यज्ञः / श्रोष्यावोऽत्र ब्राह्मणानां विवाद... मन्नं चाग्र्यं तत्र भोक्ष्यावहे च / / अष्टावक्र उवाच / अन्धस्य पन्था बधिरस्य पन्थाः स्त्रियः पन्था वैवधिकस्य पन्थाः। राज्ञः पन्था ब्राह्मणेनासमेत्य समेत्य तु ब्राह्मणस्यैव पन्थाः // 1 : राजोवाच / पन्था अयं तेऽद्य मया निसृष्टो 'येनेच्छसे तेन कामं व्रजस्व / न पावको विद्यते वै लघीयानिन्द्रोऽपि नित्यं नमते ब्राह्मणानाम् // 2 अष्टावक्र उवाच / यज्ञं द्रष्टुं प्राप्तवन्तौ स्व तात ___ कौतूहलं नौ बलवद्वै विवृद्धम् / आवां प्राप्तावतिथी संप्रवेशं काङ्क्षावहे द्वारपते तवाज्ञाम् // 3 ऐन्द्रद्युम्नेर्यज्ञदृशाविहावां विवक्षू वै जनकेन्द्रं दिदृक्ष। न वै क्रोधाद्वयाधिनैवोत्तमेन संयोजय द्वारपाल क्षणेन // 4 द्वारपाल उवाच / बन्देः समादेशकरा वयं स्म - / - 563