________________ 3. 107. 8] | महाभारते [3. 108.7 मयूरैः शतपत्रैश्च कोकिलैर्जीवजीवकैः। . चकोरैरसितापाङ्गैस्तथा पुत्रप्रियैरपि // 8 जलस्थानेषु रम्येषु पद्मिनीभिश्च संकुलम् / सारसानां च मधुरैाहतैः समलंकृतम् // 9 किंनरैरप्सरोभिश्च निषेवितशिलातलम् / दिशागजविषाणाप्रैः समन्ताद्धृष्टपादपम् // 10 - विद्याधरानुचरितं नानारत्नसमाकुलम् / विषोल्बणैर्भुजंगैश्च दीप्तजिलैर्निषेवितम् // 11 कचित्कनकसंकाशं कचिद्रजतसंनिभम् / कचिदञ्जनपुञ्जामं हिमवन्तमुपागमत् // 12 स तु तत्र नरश्रेष्ठस्तपो घोरं समाश्रितः। फलमूलाम्बुभक्षोऽभूत्सहस्रं परिवत्सरान् // 13 संवत्सरसहस्रे तु गते दिव्ये महानदी / दर्शयामास तं गङ्गा तदा मूर्तिमती स्वयम् // 14 गङ्गोवाच / किमिच्छसि महाराज मत्तः किं च ददानि ते / तद्भवीहि नरश्रेष्ठ करिष्यामि वचस्तव // 15 लोमश उवाच / एवमुक्तः प्रत्युवाच राजा हैमवतीं तदा। पितामहा मे वरदे कपिलेन महानदि। अन्वेषमाणास्तुरगं नीता वैवस्वतक्षयम् // 16 षष्टिस्तानि सहस्राणि सागराणां महात्मनाम् / कापिलं तेज आसाद्य क्षणेन निधनं गताः // 17 तेषामेवं विनष्टानां स्वर्गे वासो न विद्यते। यावत्तानि शरीराणि त्वं जलै भिषिश्चसि // 18 स्वर्ग नय महाभागे मत्पितॄन्सगरात्मजान् / तेषामर्थेऽभियाचामि त्वामहं वै महानदि // 19 एतच्छत्वा वचो राज्ञो गङ्गा लोकनमस्कृता। भगीरथमिदं वाक्यं सुप्रीता समभाषत // 20 करिष्यामि महाराज वचस्ते नात्र संशयः। वेगं तु मम दुर्धार्य पतन्त्या गगनाच्युतम् / / 21 न शक्तस्त्रिषु लोकेषु कश्चिद्धारयितुं नृप। अन्यत्र विबुधश्रेष्ठान्नीलकण्ठान्महेश्वरात् // 22 / तं तोषय महाबाहो तपसा वरदं हरम् / स तु मां प्रच्युतां देवः शिरसा धारयिष्यति / करिष्यति च ते कामं पितॄणां हितकाम्यया // 23 एतच्छ्रुत्वा वचो राजन्महाराजो भगीरथः / कैलास पर्वतं गत्वा तोषयामास शंकरम् // 24 ततस्तेन समागम्य कालयोगेन केनचित् / अगृहाच वरं तस्माद्गङ्गाया धारणं नृप। स्वर्गवासं समुद्दिश्य पितॄणां स नरोत्तमः // 25 इति श्रीमहाभारते आरण्यकपर्वणि . सप्ताधिकशततमोऽध्यायः // 10 // 108 लोमश उवाच। भगीरथवचः श्रुत्वा प्रियार्थं च दिवौकसाम् / एक्सस्त्विति राजानं भगवान्प्रत्यभाषत // 1 धारयिष्ये महाबाहो गगनात्प्रच्युतां शिवाम् / दिव्यां देवनदी पुण्यां त्वत्कृते नृपसत्तम // 2 एवमुक्त्वा महाबाहो हिमवन्तमुपागमत् / / संवृतः पार्षदैोरै नाप्रहरणोद्यतैः // 3 . ततः स्थित्वा नरश्रेष्ठं भगीरथमुवाच ह। प्रयाचस्व महाबाहो शैलराजसुतां नदीम् / पतमानां सरिच्छ्रेष्ठां धारयिष्ये त्रिविष्टपात् // 4 एतच्छ्रुत्वा वचो राजा शर्वेण समुदाहृतम् / प्रयतः प्रणतो भूत्वा गङ्गां समनुचिन्तयत् // 5 ततः पुण्यजला रम्या राज्ञा समनुचिन्तिता / ईशानं च स्थितं दृष्ट्वा गगनात्सहसा च्युता // 6 तां प्रच्युतां ततो दृष्ट्वा देवाः साधं महर्षिभिः। गन्धर्वोरगरक्षांसि समाजग्मुर्दिदृक्षया॥ 7