________________ 3. 69. 22] महाभारते . [3. 70.14 तथा तु दृष्ट्वा तानश्वान्वहतो वातरंहसः। अयोध्याधिपति/मान्विस्मयं परमं ययौ // 22 रयघोषं तु तं श्रुत्वा हयसंग्रहणं च तत्। वार्ष्णेयश्चिन्तयामास बाहुकस्य हयज्ञताम् // 23 किं नु स्यान्मातलिरयं देवराजस्य सारथिः। . तथा हि लक्षणं वीरे बाहुके दृश्यते महत् // 24 शालिहोत्रोऽथ किं नु स्याद्धयानां कुलतत्त्ववित् / मानुषं समनुप्राप्तो वपुः परमशोभनम् // 25 / उताहो खिद्भवेद्राजा नलः परपुरंजयः। सोऽयं नृपतिरायात इत्येवं समचिन्तयत् // 26 अथ वा यां नलो वेद विद्यां तामेव बाहुकः / / तुल्यं हि लक्षये ज्ञानं बाहुकस्य नलस्य च // 27 अपि चेदं वयस्तुल्यमस्य मन्ये नलस्य च / नायं नलो महावीर्यस्तद्विद्यस्तु भविष्यति // 28 प्रच्छन्ना हि महात्मानश्चरन्ति पृथिवीमिमाम् / ... दैवेन विधिना युक्ताः शास्त्रोक्तैश्च विरूपणैः // 29 भवेत्तु मतिभेदो मे गात्रवैरूप्यतां प्रति / प्रमाणात्परिहीनस्तु भवेदिति हि मे मतिः // 30 क्याप्रमाणं तत्तुल्यं रूपेण तु विपर्ययः / नलं सर्वगुणैर्युक्तं मन्ये बाहुकमन्ततः // 31 हृदयेन महाराज पुण्यश्लोकस्य सारथिः // 32 ऋतुपर्णस्तु राजेन्द्र बाहुकस्य हयज्ञताम् / चिन्तयन्मुमुदे राजा सहवार्ष्णेयसारथिः // 33 . बलं वीर्य तथोत्साहं हयसंग्रहणं च तत् / . परं यत्नं च संप्रेक्ष्य परां मुदमवाप ह // 34 " इति श्रीमहाभारते मारण्यकपर्वणि . .. एकोनसप्ततितमोऽध्यायः // 69 // अचिरेणातिचक्राम खेचरः खे चरन्निव // 1 . तथा प्रयाते तु रथे तदा भाङ्गवरिपः / उत्तरीयमथापश्यद्दष्टं परपुरंजयः // 2 ततः स त्वरमाणस्तु पटे निपतिते तदा। प्रहीष्यामीति तं राजा नलमाह महामनाः // 3... निगृहीष्व महाबुद्धे हयानेतान्महाजवान् / .. वार्ष्णेयो यावदेतं मे पटमानयतामिति // 4... नलस्तं प्रत्युवाचाथ दूरे भ्रष्टः पटस्तव / योजनं समतिक्रान्तो न स शक्यस्त्वया पुनः॥५ एवमुक्ते नलेनाथ तदा भाङ्गवरितृपः / आससाद वने राजन्फलवन्तं बिभीतकम् // 6 तं दृष्ट्वा बाहुकं राजा त्वरमाणोऽभ्यभाषत / ममापि सूत पश्य त्वं संख्याने परमं बलम् // 7 सर्वः सर्व न जानाति सर्वज्ञो नास्ति कश्चन। नैकत्र परिनिष्ठास्ति ज्ञानस्य पुरुषे कचित् // 8 वृक्षेऽस्मिन्यानि पर्णानि फलान्यपि च बाहुक / पतितानि च यान्यत्र तत्रैकमधिकं शतम् / एकपत्राधिक पत्रं फलमेकं च बाहुक // 9 पञ्च कोट्योऽथ पत्राणां द्वयोरपि च शाखयोः / प्रचिनुह्यस्य शाखे द्वे याश्चाप्यन्याः प्रशाखिकाः / आभ्यां फलसहस्रे द्वे पञ्चोनं शतमेव च // 10 ततो रथादवप्लुत्य राजानं बाहुकोऽब्रवीत् / परोक्षमिव मे राजन्कत्थसे शत्रुकर्शन // 11 अथ ते गणिते राजन्विद्यते न परोक्षता। प्रत्यक्षं ते महाराज गणयिष्ये बिभीतकम् // 12 अहं हि नाभिजानामि भवेदेवं न वेति च। .. संख्यास्यामि फलान्यस्य पश्यतस्ते जनाधिप। .. मुहूर्तमिव वार्ष्णेयो रश्मीन्यच्छतु वाजिनाम् // 13 तमब्रवीन्नृपः सूतं नायं कालो विलम्बितुम् / बाहुकस्त्वब्रवीदेनं परं यत्नं समास्थितः // 14 . बृहदश्व उवाच। स नदीः पर्वतांश्चैव वनानि च सरांसि च।