________________ 3. 26.9] आरण्यकपर्व [3.27.9 कृच्छ्रे वने वासमिमं निरुष्य / ततः श्रियं तेजसा स्वेन दीप्तामादास्यसे पार्थिव कौरवेभ्यः // 17 वैशंपायन उवाच / तमेवमुक्त्वा वचनं महर्षि___ स्तपस्विमध्ये सहितं सुहृद्भिः। आमत्र्य धौम्यं सहितांश्च पार्थां स्ततः प्रतस्थे दिशमुत्तरां सः // 18 इति श्रीमहाभारते आरण्यकपर्वणि षड्विंशोऽध्यायः // 26 // वने वासं दाशरथिश्चकार // 9 स चापि शक्रस्य समप्रभावो महानुभावः समरेष्वजेयः। विहाय भोगानचरद्वनेषु नेशे बलस्येति चरेदधर्मम् // 10 नृपाश्च नाभागभगीरथादयो महीमिमां सागरान्तां विजित्य / सत्येन तेऽप्यजयंस्तात लोका नेशे बलस्येति चरेदधर्मम् // 11 अलर्कमाहुर्नरवर्य सन्तं सत्यव्रतं काशिकरूपराजम् / विहाय राष्ट्राणि वसूनि चैव . नेशे बलस्येति चरेदधर्मम् // 12 धात्रा विधिर्यो विहितः पुराण- स्तं पूजयन्तो नरवर्य सन्तः / सप्तर्षयः पार्थ दिवि प्रभान्ति - नेशे बलस्येति चरेदधर्मम् // 13 महाबलान्पर्वतकूटमात्रा-- विषाणिनः पश्य गजान्नरेन्द्र / स्थितांन्निदेशे नरवर्य धातु र्नेशे बलस्येति चरेदधर्मम् // 14 सर्वाणि भूतानि नरेन्द्र पश्य __ यथा यथावद्विहितं विधात्रा। स्वयोनितस्तत्कुरुते प्रभावा नेशे बलस्येति चरेदधर्मम् // 15 सत्येन धर्मेण यथार्हवृत्त्या ह्रिया तथा सर्वभूतान्यतीत्य / यशश्च तेजश्च तवापि दीप्तं विभावसोर्भास्करस्येव पार्थ // 16 यथाप्रतिज्ञं च महानुभाव , वैशंपायन उवाच / वसत्स्वथ द्वैतवने पाण्डवेषु महात्मसु / अनुकीर्णं महारण्यं ब्राह्मणैः समपद्यत // 1 ईर्यमाणेन सततं ब्रह्मघोषेण सर्वतः / ब्रह्मलोकसमं पुण्यमासीद्वैतवनं सरः // 2 यजुषामृचां च साम्नां च गद्यानां चैव सर्वशः / आसीदुच्चार्यमाणानां निस्वनो हृदयंगमः // 3 ज्याघोषः पाण्डवेयानां ब्रह्मघोषश्च धीमताम् / संसृष्टं ब्रह्मणा क्षत्रं भूय एव व्यरोचत // 4 अथाब्रवीद्वको दाल्भ्यो धर्मराज युधिष्ठिरम् / संध्यां कौन्तेयमासीनमृषिभिः परिवारितम् // 5 पश्य द्वैतवने पार्थ ब्राह्मणानां तपस्विनाम् / होमवेलां कुरुश्रेष्ठ संप्रज्वलितपावकाम् // 6 चरन्ति धर्मं पुण्येऽस्मिंस्त्वया गुप्ता धृतव्रताः / भृगवोऽङ्गिरसश्चैव वासिष्ठाः काश्यपैः सह // 7 आगस्त्याश्च महाभागा आत्रेयाश्चोत्तमव्रताः / सर्वस्य जगतः श्रेष्ठा ब्राह्मणाः संगतास्त्वया / / 8 इदं तु वचनं पार्थ शृण्वेकाग्रमना मम / भ्रातृभिः सह कौन्तेय यत्त्वा वक्ष्यामि कौरव॥ 9 -421 -