________________ 1. 3. 185 ] आदिपर्व [ 1.5.3 तक्षकेण नरेन्द्रेन्द्र येन ते हिंसितः पिता। तस्मै प्रतिकुरुष्व त्वं पन्नगाय दुरात्मने // 185 कार्यकालं च मन्येऽहं विधिदृष्टस्य कर्मणः / तद्गच्छापचितिं राजन्पितुस्तस्य महात्मनः // 186 तेन ह्यनपराधी स दष्टो दुष्टान्तरात्मना। पञ्चत्वमगमद्राजा वज्राहत इव द्रुमः // 187 बलदर्पसमुत्सितस्तक्षकः पन्नगाधमः / अकार्यं कृतवान्पापो योऽदशत्पितरं तव // 188 राजर्षिवंशगोप्तारममरप्रतिमं नृपम् / जघान काश्यपं चैव न्यवर्तयत पापकृत् // 189 दग्धुमर्हसि तं पापं ज्वलिते हव्यवाहने / सर्पसत्रे महाराज त्वयि तद्धि विधीयते // 190 एवं पितुश्चापचितिं गतवांस्त्वं भविष्यसि / मम प्रियं च सुमहत्कृतं राजन्भविष्यति // 191 कर्मणः पृथिवीपाल मम येन दुरात्मना / विघ्नः कृतो महाराज गुर्वर्थं चरतोऽनघ / / 192 एतच्छ्रुत्वा तु नृपतिस्तक्षकस्य चुकोप ह। उत्तवाक्यहविषा दीप्तोऽग्निहविषा यथा // 193 / अपृच्छच्च तदा राजा मत्रिणः स्वान्सुदुःखितः / उत्तङ्कस्यैव सांनिध्ये पितुः स्वर्गगतिं प्रति // 194 तदैव हि स राजेन्द्रो दुःखशोकाप्लुतोऽभवत्। यदैव पितरं वृत्तमुत्तकादशृणोत्तदा // 195 - इति श्रीमहाभारते आदिपर्वणि तृतीयोऽध्यायः // 3 // ॥समाप्तं पौष्यपर्व॥ ऊचुः / परमं लोमहर्षणे प्रक्ष्यामस्त्वां वक्ष्यसि च नः शुश्रूषतां कथायोगम् / तद्भगवांस्तु तावच्छौनकोऽग्निशरणमध्यास्ते // 3 // योऽसौ दिव्याः कथा वेद देवतासुरसंकथाः / मनुष्योरगगन्धर्वकथा वेद च सर्वशः // 4 स चाप्यस्मिन्मखे सौते विद्वान्कुलपतिर्द्विजः / दक्षो धृतव्रतो धीमाञ्शास्त्रे चारण्यके गुरुः // 5 सत्यवादी शमपरस्तपस्वी नियतव्रतः / सर्वेषामेव नो मान्यः स तावत्प्रतिपाल्यताम् // 6 तस्मिन्नध्यासति गुरावासनं परमार्चितम् / ततो वक्ष्यसि यत्त्वां स प्रक्ष्यति द्विजसत्तमः // 7 सूत उवाच / एवमस्तु गुरौ तस्मिन्नुपविष्टे महात्मनि / तेन पृष्टः कथाः पुण्या वक्ष्यामि विविधाश्रयाः // 8 सोऽथ विप्रर्षभः कार्यं कृत्वा सर्वं यथाक्रमम् / देवान्वाग्भिः पितृनद्भिस्तर्पयित्वाजगाम ह // 9 यत्र ब्रह्मर्षयः सिद्धास्त आसीना यतव्रताः / यज्ञायतनमाश्रित्य सूतपुत्रपुरःसराः // 10 ऋत्विक्ष्वथ सदस्येषु स वै गृहपतिस्ततः / उपविष्टेषूपविष्टः शौनकोऽथाब्रवीदिदम् // 11 इति श्रीमहाभारते आदिपर्वणि चतुर्थोऽध्यायः // 4 // लोमहर्षणपुत्र उग्रश्रवाः सूतः पौराणिको नैमिपारण्ये शौनकस्य कुलपतेर्द्वादशवार्षिके सत्रे ऋषीनभ्यागतानुपतस्थे // 1 // पौराणिकः पुराणे कृतश्रमः स तान्कृताञ्जलिरुवाच / किं भवन्तः श्रोतु- मिच्छन्ति / किमहं ब्रुवाणीति // 2 // तमृषय - शौनक उवाच। पुराणमखिलं तात पिता तेऽधीतवान्पुरा / कञ्चित्त्वमपि तत्सर्वमधीषे लोमहर्षणे // 1 पुराणे हि कथा दिव्या आदिवंशाश्च धीमताम् / कथ्यन्ते ताः पुरास्माभिः श्रुताः पूर्वं पितुस्तव // 2 तत्र वंशमहं पूर्वं श्रोतुमिच्छामि भार्गवम् / कथयस्व कथामेतां कल्याः स्म श्रवणे तव // 3 - 27