________________ 1. 185. 26 ] महाभारते [1. 186. 11 मिमामहं ब्राह्मण साधु मन्ये। न तद्धनुर्मन्दबलेन शक्यं __ मौा समायोजयितुं तथा हि / न चाकृतास्त्रेण न हीनजेन लक्ष्यं तथा पातयितुं हि शक्यम् // 26 तस्मान्न तापं दुहितुर्निमित्तं ___ पाश्चालराजोऽर्हति कर्तुमद्य / न चापि तत्पातनमन्यथेह ___ कर्तुं विषह्यं भुविं मानवेन // 27 एवं ब्रुवत्येव युधिष्ठिरे तु पाञ्चालराजस्य समीपतोऽन्यः / तत्राजगामाशु नरो द्वितीयो निवेदयिष्यन्निह सिद्धमन्नम् // 28 इति श्रीमहाभारते आदिपर्वणि पञ्चाशीत्यधिकशततमोऽध्यायः // 185 // 186 दूत उवाच / जन्यार्थमन्नं द्रुपदेन राज्ञा विवाहहेतोरुपसंस्कृतं च। तदाप्नुवध्वं कृतसर्वकार्याः __ कृष्णा च तत्रैव चिरं न कार्यम् // 1 इमे रथाः काञ्चनपद्मचित्राः सदश्वयुक्ता वसुधाधिपार्हाः। एतान्समारुह्य परैत सर्वे पाञ्चालराजस्य निवेशनं तत् // 2 वैशंपायन उवाच / ततः प्रयाताः कुरुपुंगवास्ते पुरोहितं तं प्रथमं प्रयाप्य / आस्थाय यानानि महान्ति तानि कुन्ती च कृष्णा च सहैव याते // 3 -244 श्रुत्वा तु वाक्यानि पुरोहितस्य यान्युक्तवान्भारत धर्मराजः। जिज्ञासयैवाथ कुरूत्तमानां द्रव्याण्यनेकान्युपसंजहार // 4 फलानि माल्यानि सुसंस्कृतानि / ___ चर्माणि वर्माणि तथासनानि / . गाश्चैव राजन्नथ चैव रज व्याणि चान्यानि कृषीनिमित्तम् / / 5 अन्येषु शिल्पेषु च यान्यपि स्युः __ सर्वाणि क्लुप्तान्यखिलेन तत्र। . क्रीडानिमित्तानि च यानि तानि सर्वाणि तत्रोपजहार राजा // 6 रथाश्ववर्माणि च भानुमन्ति __खड्गा महान्तोऽश्वरथाश्च चित्राः / धनूंषि चाग्र्याणि शराश्च मुख्याः शक्त्यष्टयः काञ्चनभूषिताश्च // 7 प्रासा भुशुण्ड्यश्च परश्वधाश्च सांग्रामिकं चैव तथैव सर्वम् / शय्यासनान्युत्तमसंस्कृतानि तथैव चासन्विविधानि तत्र // 8 कुन्ती तु कृष्णां परिगृह्य साध्वी मन्तःपुरं द्रुपदस्याविवेश / स्त्रियश्च तां कौरवराजपत्नी प्रत्यर्चयांचक्रुरदीनसत्त्वाः // 9 तान्सिंहविक्रान्तगतीनवेक्ष्य . महर्षभाक्षानजिनोत्तरीयान् / गूढोत्तरांसान्भुजगेन्द्रभोग प्रलम्बबाहून्पुरुषप्रवीरान् // 10 राजा च राज्ञः सचिवाश्च सर्वे पुत्राश्च राज्ञः सुहृदस्तथैव / -