________________ 1. 185. 11] आदिपर्व [1. 185. 26 कथा विचित्राः कथयांबभूवुः / न वैश्यशद्रौपयिकीः कथास्ता __ न च द्विजातेः कथयन्ति वीराः॥११ निःसंशयं क्षत्रियपुंगवास्ते यथा हि युद्धं कथयन्ति राजन् / आशा हि नो व्यक्तमियं समृद्धा मुक्तान्हि पार्थाशृणुमोऽग्निदाहात् // 12 यथा हि लक्ष्यं निहतं धनुश्च सज्यं कृतं तेन तथा प्रसह्य / यथा च भाषन्ति परस्परं ते छन्ना ध्रुवं ते प्रचरन्ति पार्थाः // 13 / ततः स राजा द्रुपदः प्रहृष्टः __पुरोहितं प्रेषयां तत्र चक्रे / विद्याम युष्मानिति भाषमाणो महात्मनः पाण्डुसुताः स्थ कच्चित् // 14 गृहीतवाक्यो नृपतेः पुरोधा गत्वा प्रशंसामभिधाय तेषाम् / वाक्यं यथावन्नृपतेः समग्र मुवाच तान्स क्रमविक्रमेण // 15 विज्ञातुमिच्छत्यवनीश्वरों वः पाञ्चालराजो द्रुपदो वरार्हाः। लक्ष्यस्य वेद्धारमिमं हि दृष्ट्वा हर्षस्य नान्तं परिपश्यते सः // 16 तदाचड्ढे ज्ञातिकुलानुपूर्वी ___पदं शिरःसु द्विषतां कुरुध्वम् / प्रहादयध्वं हृदयं ममेदं पाश्चालराजस्य सहानुगस्य // 17 पाण्डुर्हि राजा द्रुपदस्य राज्ञः प्रियः सखा चात्मसमो बभूव / तस्यैष कामो दुहिता ममेयं -243 स्नुषा यदि स्यादिति कौरवस्य // 18 अयं च कामो द्रुपदस्य राज्ञो हृदि स्थितो नित्यमनिन्दिताङ्गाः। यदर्जुनो वै पृथुदीर्घबाहु धर्मेण विन्देत सुतां ममेति // 19 तथोक्तवाक्यं तु पुरोहितं तं स्थितं विनीतं समुदीक्ष्य राजा / समीपस्थं भीममिदं शशास - प्रदीयतां पाद्यमयं तथास्मै // 20 मान्यः पुरोधा द्रुपदस्य राज्ञ स्तस्मै प्रयोज्याभ्यधिकैव पूजा / भीमस्तथा तत्कृतवान्नरेन्द्र तां चैव पूजां प्रतिसंगृहीत्वा / / 21 सुखोपविष्टं तु पुरोहितं तं युधिष्ठिरो ब्राह्मणमित्युवाच / पाश्चालराजेन सुता निसृष्टा स्वधर्मदृष्टेन यथानुकामम् / / 22 प्रदिष्टशुल्का द्रुपदेन राजा सानेन वीरेण तथानुवृत्ता / न तत्र वर्णेषु कृता विवक्षा ___ न जीवशिल्पे न कुले न गोत्रे // 23 कृतेन सज्येन हि कार्मुकेण विद्धन लक्ष्येण च संनिसृष्टा / सेयं तथानेन महात्मनेह कृष्णा जिता पार्थिवसंघमध्ये // 24 नैवंगते सौमकिरद्य राजा संतापमहत्यसुखाय कर्तुम् / कामश्च योऽसौ द्रुपदस्य राज्ञः ___ स चापि संपत्स्यति पार्थिवस्य // 25 अप्राप्यरूपां हि नरेन्द्रकन्या-