________________ 1. 181. 29 ] आदिपर्व [1. 182.8 को वा दुर्योधनं शक्तः प्रतियोधयितुं रणे // 29 / तथैव मद्रराजानं शल्यं बलवतां वरम् / बलदेवाहते वीरात्पाण्डवाद्वा वृकोदरात् // 30 क्रियतामवहारोऽस्मायुद्धाद्ब्राह्मणसंयुतात् / अथैनानुपलभ्येह पुनर्योत्स्यामहे वयम् // 31 तत्कर्म भीमस्य समीक्ष्य कृष्णः ___ कुन्तीसुतौ तौ परिशङ्कमानः / निवारयामास महीपतींस्ता धर्मेण लब्धेत्यनुनीय सर्वान् // 32 त एवं संनिवृत्तास्तु युद्धायुद्धविशारदाः / यथावासं ययुः सर्वे विस्मिता राजसत्तमाः॥ 33 वृत्तो ब्रह्मोत्तरो रङ्गः पाञ्चाली ब्राह्मणैर्वृता।। इति ब्रुवन्तः प्रययुर्ये तत्रासन्समागताः // 34 ब्राह्मणैस्तु प्रतिच्छन्नौ रौरवाजिनवासिभिः / / कृच्छ्रेण जग्मतुस्तत्र भीमसेनधनंजयौ // 35 'विमुक्तौ जनसंबाधाच्छत्रुभिः परिविक्षतौ / कृष्णयानुगतौ तत्र नृवीरौ तौ विरेजतुः // 36 तेषां माता बहुविधं विनाशं पर्यचिन्तयत् / अनागच्छत्सु पुत्रेषु भैक्षकालेऽतिगच्छति // 37 धार्तराष्ट्रईता न स्युर्विज्ञाय कुरुपुंगवाः / मायान्वितैर्वा रक्षोभिः सुघोरैदृढवैरिभिः // 38 विपरीतं मतं जातं व्यासस्यापि महात्मनः / इत्येवं चिन्तयामास सुतस्नेहान्विता पृथा // 39 महत्यथापराह्ने तु घनैः सूर्य इवावृतः / ब्राह्मणैः प्राविशत्तत्र जिष्णुब्रह्मपुरस्कृतः / / 40 इति श्रीमहाभारते आदिपर्वणि एकाशीत्यधिकशततमोऽध्यायः // 181 // 182 वैशंपायन उवाच / गत्वा तु तां भार्गवकर्मशाला -239 पार्थौ पृथां प्राप्य महानुभावौ। तां याज्ञसेनी परमप्रतीतौ भिक्षेत्यथावेदयतां नराग्र्यौ // 1 कुटीगता सा त्वनवेक्ष्य पुत्रा नुवाच भुङ्क्तेति समेत्य सर्वे / पश्चात्तु कुन्ती प्रसमीक्ष्य कन्यां' कष्टं मया भाषितमित्युवाच // 2 साधर्मभीता हि विलजमाना तां याज्ञसेनी परमप्रतीताम् / पाणौ गृहीत्वोपजगाम कुन्ती __ युधिष्ठिरं वाक्यमुवाच चेदम् // 3 इयं हि कन्या द्रुपदस्य राज्ञ स्तवानुजाभ्यां मयि संनिसृष्टा / यथोचितं पुत्र मयापि चोक्तं समेत्य भुङ्क्तेति नृप प्रमादात् // 4 कथं मया नानृतमुक्तमद्य भवेत्कुरूणामृषभ ब्रवीहि / पाश्चालराजस्य सुतामधर्मो न चोपवर्तेत नभूतपूर्वः॥ 5 मुहूर्तमात्रं त्वनुचिन्त्य राजा ___ युधिष्ठिरो मातरमुत्तमौजाः। कुन्ती समाश्वास्य कुरुप्रवीरो - धनंजयं वाक्यमिदं बभाषे॥६ त्वया जिता पाण्डव याज्ञसेनी त्वया च तोषिष्यति राजपुत्री / प्रज्वाल्यतां हूयतां चापि वह्निगुहाण पाणिं विधिवत्त्वमस्याः // 7 अर्जुन उवाच / मा मां नरेन्द्र त्वमधर्मभाज ___ कृथा न धर्मो ह्ययमीप्सितोऽन्यः / -