________________ 1. 1. 168 ] आदिपर्व [1. 1. 196 मरुत्तं मनुमिक्ष्वाकुं गयं भरतमेव च / रामं दाशरथिं चैव शशबिन्दु भगीरथम् // 168 ययातिं शुभकर्माणं देवैयों याजितः स्वयम् / चैत्ययूपाङ्किता भूमिर्यस्येयं सवनाकरा // 169 इति राज्ञां चतुर्विंशन्नारदेन सुरर्षिणा / पुत्रशोकाभितप्ताय पुरा शैव्याय कीर्तिताः // 170 तेभ्यश्चान्ये गताः पूर्व राजानो बलवत्तराः / / महारथा महात्मानः सर्वैः समुदिता गुणैः / / 171 पूरुः कुरुर्यदुः शूरो विष्वगश्वो महाधृतिः / अनेना युवनाश्वश्च ककुत्स्थो विक्रमी रघुः // 172 विजिती वीतिहोत्रश्च भवः श्वेतो बृहद्गुरुः / उशीनरः शतरथः कङ्को दुलिदुहो द्रुमः // 173 दम्भोद्भवः परो वेनः सगरः संकृतिर्निमिः / अजेयः परशुः पुण्डः शम्भुर्देवावृधोऽनघः // 174 देवाह्वयः सुप्रतिमः सुप्रतीको बृहद्रथः / महोत्साहो विनीतात्मा सुक्रतुनैषधो नलः / / 175 सत्यवतः शान्तभयः सुमित्रः सुबलः प्रभुः / जानुजङ्खोऽनरण्योऽर्कः प्रियभृत्यः शुभव्रतः।। 176 बलबन्धुनिरामर्दः केतुशृङ्गो बृहद्बलः / धृष्टकेतुर्वृहत्केतुर्दीप्तकेतुर्निरामयः॥ 177 अविक्षिप्रबलो धूर्तः कृतबन्धुईढेषुधिः / महापुराणः संभाव्यः प्रत्यङ्गः परहा श्रुतिः / / 178 एते चान्ये च बहवः शतशोऽथ सहस्रशः / भयन्तेऽयुतशश्चान्ये संख्याताश्चापि पद्मशः॥ 179 हित्वा सुविपुलान्भोगान्बुद्धिमन्तो महाबलाः / राजानो निधनं प्राप्तास्तव पुत्रैमहत्तमाः // 180 येषां दिव्यानि कर्माणि विक्रमस्त्याग एव च।। माहात्म्यमपि चास्तिक्यं सत्यता शौचमार्जवम् 181 विद्वद्भिः कथ्यते लोके पुराणैः कविसत्तमैः। सर्वर्द्धिगुणसंपन्नास्ते चापि निधनं गताः // 182 म. भा. 2 तव पुत्रा दुरात्मानः प्रतप्ताश्चैव मन्युना / | लुब्धा दुर्वृत्तभूयिष्ठा न ताशोचितुमर्हसि // 183 श्रुतवानसि मेधावी बुद्धिमान्प्राज्ञसंमतः / येषां शास्त्रानुगा बुद्धिर्न ते मुह्यन्ति भारत / / 184 निग्रहानुग्रहौ चापि विदितौ ते नराधिप / नात्यन्तमेवानुवृत्तिः श्रूयते पुत्ररक्षणे // 185 भवितव्यं तथा तच्च नातः शोचितुमर्हसि। दैवं प्रज्ञाविशेषेण को निवर्तितुमर्हति // 186 विधातृविहितं मागं न कश्चिदतिवर्तते / कालमूलमिदं सर्वं भावाभावौ सुखासुखे // 187 कालः पचति भूतानि कालः संहरति प्रजाः / निर्दहन्तं प्रजाः कालं कालः शमयते पुनः // 188 कालो विकुरुते भावान्सर्वाल्लोके शुभाशुभान् / कालः संक्षिपते सर्वाः प्रजा विसृजते पुनः / कालः सर्वेषु भूतेषु चरत्यविधृतः समः // 189 अतीतानागता भावा ये च वर्तन्ति सांप्रतम् / तान्कालनिर्मितान्बुद्धा न संज्ञा हातुमर्हसि // 190 सूत उवाच / अत्रोपनिषदं पुण्यां कृष्णद्वैपायनोऽब्रवीत् / भारताध्ययनात्पुण्यादपि पादमधीयतः / श्रद्दधानस्य पूयन्ते सर्वपापान्यशेषतः // 191 देवर्षयो यत्र पुण्या ब्रह्मराजर्षयस्तथा / कीर्त्यन्ते शुभकर्माणस्तथा यक्षमहोरगाः // 192 भगवान्वासुदेवश्च कीर्यतेऽत्र सनातनः / स हि सत्यमृतं चैव पवित्रं पुण्यमेव च // 193 शाश्वतं ब्रह्म परमं ध्रुवं ज्योतिः सनातनम् / यस्य दिव्यानि कर्माणि कथयन्ति मनीषिणः॥१९४ असत्सत्सदसञ्चैव यस्माद्देवात्प्रवर्तते / संततिश्च प्रवृत्तिश्च जन्म मृत्युः पुनर्भवः // 195 अध्यात्मं श्रूयते यच्च पञ्चभूतगुणात्मकम् / - 9 -