________________ 1. 117. 1] आदिपर्व [1. 117. 29 वैशंपायन उवाच / पाण्डोरवभृथं कृत्वा देवकल्पा महर्षयः। ततो मत्रमकुर्वन्त ते समेत्य तपस्विनः // 1 हित्वा राज्यं च राष्ट्रं च स महात्मा महातपाः / अस्मिन्स्थाने तपस्ततुं तापसाशरणं गतः / / 2 स जातमात्रान्पुत्रांश्च दारांश्च भवतामिह / प्रदायोपनिधिं राजा पाण्डुः स्वर्गमितो गतः / / 3. ते परस्परमामय सर्वभूतहिते रताः। पाण्डोः पुत्रान्पुरस्कृत्य नगरं नागसाह्वयम् // 4 उदारमनसः सिद्धा गमने चक्रिरे मनः / भीष्माय पाण्डवान्दातुं धृतराष्ट्राय चैव हि // 5 तस्मिन्नेव क्षणे सर्वे तानादाय प्रतस्थिरे / पाण्डोरांश्च पुत्रांश्च शरीरं चैव तापसाः // 6 सुखिनी सा पुरा भूत्वा सततं पुत्रवत्सला / प्रपन्ना दीर्घमध्वानं संक्षितं तदमन्यत // 7 सा नदीपेण कालेन संप्राप्ता कुरुजाङ्गलम् / वर्धमानपुरद्वारमाससाद यशस्विनी / / 8 सं चारणसहस्राणां मुनीनामागमं तदा / श्रुत्वा नागपुरे नृणां विस्मयः समजायत // 9 मुहूर्तोदित आदित्ये सर्प धर्मपुरस्कृताः। सदारास्तापसान्द्रष्टं निययुः पुरवासिनः // 10 श्रीसंघाः क्षत्रसंघाश्च यानसंघान्समास्थिताः / ब्राह्मणैः सह निर्जग्मुर्ब्राह्मणानां च योपितः // 11 स्था विट्शूद्रसंघानां महान्व्यतिकरोऽभवत् / म कश्चिदकरोदामभवन्धर्मबुद्धयः // 12 ख्या भीष्मः शांतनवः सोमदत्तोऽथ बाह्निकः / मनाचक्षुश्च राजर्षिः क्षत्ता च विदुरः स्वयम् // 13 सा च सत्यवती देवी कौसल्या च यशस्विनी। जदारैः परिवृता गान्धारी च विनिर्ययौ // 14 धृतराष्ट्रस्य दायादा दुर्योधनपुरोगमाः / भूषिता भूषणैश्चित्रैः शतसंख्या विनिर्ययुः // 15 तान्महर्षिगणान्सर्वाशिरोभिरभिवाद्य च / उपोपविविशुः सर्वे कौरव्याः सपुरोहिताः // 16 तथैव शिरसा भूमावभिवाद्य प्रणम्य च। उपोपविविशुः सर्वे पौरजानपदा अपि // 17 तमकूजमिवाज्ञाय जनौघं सर्वशस्तदा / भीष्मो राज्यं च राष्ट्रं च मर्षिभ्यो न्यवेदयत् // 18 तेषामथो वृद्धतमः प्रत्युत्थाय जटाजिनी / महर्षिमतमाज्ञाय महर्षिरिदमब्रवीत् / / 19 यः स कौरव्यदायादः पाण्डुर्नाम नराधिपः / कामभोगान्परित्यज्य शतशृङ्गमितो गतः // 20 ब्रह्मचर्यव्रतस्थस्य तस्य दिव्येन हेतुना। साक्षाद्धर्मादयं पुत्रस्तस्य जातो युधिष्ठिरः // 21 तथेमं बलिनां श्रेष्ठं तस्य राज्ञो महात्मनः / मातरिश्वा ददौ पुत्रं भीमं नाम महाबलम् // 22 पुरुहूतादयं जज्ञे कुन्त्यां सत्यपराक्रमः / यस्य कीर्तिर्महेष्वासान्सर्वानभिभविष्यति // 23 यौ तु माद्री महेष्वासावसूत कुरुसत्तमौ / अश्विभ्यां मनुजव्याघ्राविमौ तावपि तिष्ठतः // 24 चरता धर्मनित्येन वनवासं यशस्विना / एष पैतामहो वंशः पाण्डुना पुनरुद्धृतः / / 25 पुत्राणां जन्म वृद्धिं च वैदिकाध्ययनानि च / पश्यतः सततं पाण्डोः शश्वत्प्रीतिरवर्धत / / 26 . वर्तमानः सतां वृत्ते पुत्रलाभमवाप्य च। पितृलोकं गतः पाण्डुरितः सप्तदशेऽहनि / / 27 तं चितागतमाज्ञाय वैश्वानरमुखे हुतम् / प्रविष्टा पावकं माद्री हित्वा जीवितमात्मनः // 28 सा गता सह तेनैव पतिलोकमनुव्रता / तस्यास्तस्य च यत्कार्य क्रियतां तदनन्तरम् // 29 - 171 -