________________ 1. 1. 133] आदिपर्व [1. 1. 148 महारथाः पार्थमशक्नुवन्त स्तदा नाशंसे विजयाय संजय // 133 यदाश्रौषमभिमन्यु निहत्य हर्षान्मूढान्क्रोशतो धार्तराष्ट्रान् / क्रोधं मुक्तं सैन्धवे चार्जुनेन तदा नाशंसे विजयाय संजय // 134 यदाश्रौषं सैन्धवार्थे प्रतिज्ञा प्रतिज्ञातां तद्वधायार्जुनेन / सत्यां निस्तीर्णा शत्रुमध्ये च तेन तदा नाशंसे विजयाय संजय // 135 यदाश्रीषं श्रान्तहये धनंजये - मुक्त्वा हयान्पाययित्वोपवृत्तान् / . पुनर्युक्त्वा वासुदेवं प्रयातं __ तदा नाशंसे विजयाय संजय // 136 यदाश्रौषं वाहनेष्वाश्वसत्सु रथोपस्थे तिष्ठता गाण्डिवेन / सर्वान्योधान्वारितानर्जुनेन . तदा नाशंसे विजयाय संजय / / यदाश्रीषं नागबलैर्दुरुत्सहं . द्रोणानीकं युयुधानं प्रमथ्य / यातं वार्ष्णेयं यत्र तो कृष्णपार्थों तदा नाशंसे विजयाय संजय // 138 यदाश्रौषं कर्णमासाद्य मुक्तं वधाद्भीमं कुत्सयित्वा वचोभिः / धनुष्कोट्या तुद्य कर्णेन वीरं . तदा नाशंसे विजयाय संजय // 139 यदा द्रोणः कृतवर्मा कृपश्च कर्णो द्रौणिर्मद्रराजश्च शूरः / अमर्षयन्सैन्धवं वध्यमानं .. तदा नाशंसे विजयाय संजय // 140 यदाश्रौषं देवराजेन दत्तां दिव्यां शक्तिं व्यंसितां माधवेन / घटोत्कचे राक्षसे घोररूपे तदा नाशंसे विजयाय संजय // 141 यदाश्रीषं कर्णघटोत्कचाभ्यां युद्धे मुक्तां सूतपुत्रेण शक्तिम् / यया वध्यः समरे सव्यसाची तदा नाशंसे विजयाय संजय // 142 यदाश्रोषं द्रोणमाचार्यमेकं धृष्टद्युम्नेनाभ्यतिक्रम्य धर्मम् / रथोपस्थे प्रायगतं विशस्तं तदा नाशंसे विजयाय संजय // 143 यदाश्रौषं द्रौणिना द्वेरथस्थं ___माद्रीपुत्रं नकुलं लोकमध्ये / समं युद्धे पाण्डवं युध्यमानं तदा नाशंसे विजयाय संजय // 144 यदा द्रोणे निहते द्रोणपुत्रो ___ नारायणं दिव्यमस्त्रं विकुर्वन् / नैषामन्तं गतवान्पाण्डवानां तदा नाशंसे विजयाय संजय // 145 यदाश्रीषं कर्णमत्यन्तशूरं ___ हतं पार्थेनाहवेष्वप्रधृष्यम् / तस्मिन्भ्रातॄणां विग्रहे देवगुह्ये तदा नाशंसे विजयाय संजय / / 146 यदाश्रौषं द्रोणपुत्रं कृतं च दुःशासनं कृतवर्माणमुग्रम् / युधिष्ठिरं शून्यमधर्षयन्तं तदा नाशंसे विजयाय संजय // 147 यदाश्रौषं निहतं मद्रराज रणे शूरं धर्मराजेन सूत / . /