________________ भूमिका. पूर्वमेव विनष्टानीति संभावयामि- अत एव बहुत्र पूर्वपक्षसूत्राणि संपति नोपलभ्यन्ते / समग्रोयं ग्रंथो न विनष्ट इति खेद एव, वस्तुतस्तु सूत्रभाष्ययोर्यादृशानि वाक्यान्यशुद्धान्युपलभ्यन्ते तेनायं ग्रन्थः सरस्वतीदेवताकहोमयोग्य इत्येव प्रतिभाति- अत एवास्याध्ययनपरम्परा नष्टा / एतेषां च सूत्राणामेतद्भाष्यात् पूर्वमपि किमपि व्याख्यानमासीदिति प्रथमाध्यायद्वितीयाह्निकनवमसूत्रस्य "अवयवविपर्यासवचनं न सूत्रार्थः" इत्यादिभाष्येण स्पष्टं प्रतीयते / नाप्यस्माकमर्थकामपरायणानामद्यत्वे एतादृशदर्शनानामपेक्षास्ति, नाप्येतानि संप्रदायदशेनानि- वेदान्तानामेव संप्रति संप्रदायदर्शनत्वात् / / अस्य ग्रन्थस्याऽध्यायाः पञ्च सन्ति. प्रत्यध्यायं चाह्निकद्वयम् , तत्र प्रथमाध्याये षोडशपदार्थानां लक्षणम् , द्वितीयाध्याये- संशयप्रमाणानां परीक्षा शब्दस्यानित्यत्वस्थापनं च, तृतीयाध्यायमारभ्य चतुर्थाध्यायप्रथमाह्निकपर्यन्तमात्मादिप्रमेयाणि परीक्षितानि, चतुर्थाध्यायद्वितीयाहिके तु तत्त्वज्ञानं तत्फलं तत्कारणं च निरूपितं परमाणोनित्यत्वं च व्यवस्थापितम् , पञ्चमाध्यायस्य प्रथमाह्निके जातिभेदा द्वितीयाह्निके च निग्रहस्थानभेदा निरूपिताः, अन्यत् सर्व विषयसूचनिकायां तत्र तत्र ग्रन्थे च स्पष्टमेव / - अस्य च भाष्यस्य संपूर्णस्य व्याख्यानं वार्तिकमेवोपलभ्यते. वार्तिकस्य च व्याख्यानं तात्पर्यटीका, तात्पर्यटीकाकारेणापि कचित् कचिद् भाष्यस्य मूलवाक्यानि व्याख्यातानीति तस्य महानुपकारोयं स्मर्तव्य एव अथापि नोभयत्रापि साकल्येन भाष्यवाक्यानां व्याख्यानमुपलभ्यने न च वार्तिकतात्पर्यटीकाभ्यां छात्राणां मूलार्थजिज्ञासा निवर्तते इतिहेतोबहुभिश्छात्रैरस्य टीकानिर्माणार्थ प्रेरितोहम् / __ मया चास्य ग्रन्थस्य स्वविद्यागुरुभ्यो महामहोपाध्यायसीआईईश्रीश्रीगङ्गाधरशास्त्रिचरणेभ्यो ये वाक्यार्थाः श्रुतास्तान् संस्मृत्य वार्तिकस्य तात्पर्यटीकायाश्च साहाय्येनेषा प्रसन्नपदाख्या व्याख्या विरचितास्ति. अत्र च तत्र तत्रोपयुक्ते वार्तिकतात्पर्यटीके अपि चोपन्यस्ते, यद्यपि चैषा प्रसन्नपदा मयातिश्रमेण विरचितास्ति बुद्धिश्रमापेक्षा चात्र सूत्रभाष्ययोः प्रसादराहित्येनैवानुमेयास्ति तथाप्यस्याः स्वीकारे निर्मत्सरा विद्वांस एव प्रमाणम् / अस्यां च टीकायां मया सूत्राण्यपि व्याख्यातानि भाष्यस्य चाऽनतिस्पष्टार्थानि सर्वाणि वाक्यानि व्याख्यातानि, कचित् कचित् सन्धिकार्य बोधसौकर्याय बुद्धयैवं परित्यक्तम् / मूलस्य बहुष्वपि पाठविकल्पेषूपलभ्यमानेषु स्वमत्या संगता एव पाठाः संगृहीताः परित्यक्ताश्चान्ये इतीदमेव मे प्रसन्नपदायाः संक्षिप्तं स्वरूपमऽन्यत् स्वयं द्रष्टव्यम् / / लेखसौष्ठवहीनस्याप्रसिद्धस्य विशेषतः / न्यायभाष्यस्य टीकेयं तोषयिष्यति किं बुधान् ? // मादृशाल्पमतेस्तावत् का वार्ता ग्रन्थसंततेः। लोके किमस्ति यत् प्राज्ञैः कोपदृष्टया न गर्हितम् / / " न चात्रातीव कर्तव्यं दोषदृष्टिपरं मनः / दोषो ह्यविद्यमानोपि तच्चित्तानां प्रकाशते // " इत्यादीन्यत्र वाक्यानि चिन्तनीयानि कोविदैः। शुद्धं यदत्र तद् ग्राह्यं दुष्टं चास्तु ममैव // इत्यलमधिकेनेति सविनयं विज्ञापयति श्रीमतीयः पञ्चनदी सुदर्शनाचार्य काशी