SearchBrowseAboutContactDonate
Page Preview
Page 4
Loading...
Download File
Download File
Page Text
________________ श्रीः भूमिका अये विद्वद्वरा विभूषितवसुन्धराः विदितमेव तत्रभवतामत्रानेकानि दर्शनानि सन्ति. तत्रापि प्रधानेषु षट्सु दर्शनेष्वेकं न्यायदर्शनमिति, अस्मिंश्च न्यायदर्शने ईश्वरो निराकारो नित्यज्ञानादिगुणयुक्तो व्यापकः प्रपञ्चस्य निमित्तकारणमिति, जीवाश्चानन्ता व्यापका मनस्संयोगेनैव ज्ञानादिगुणयुक्ता ईश्वरातिरिक्ता इति, भूतेष्वाकाशो नित्यस्तदतिरिक्तभूतानां परमाणवो नित्याः परमाणुभि_णुकादिक्रमेण स्थूलभूतसृष्टिर्भवतीति, आत्मादिपदार्थतत्त्वज्ञानात्सर्वज्ञानेच्छादिशून्यो मोक्षो जायते इत्यादि स्वीकृतं तच्च तत्र तत्र संदर्भेषु स्पष्टमेवेत्यलमत्र तत्प्रतिपादनेन / ____ अस्य च न्यायदर्शनस्य केनापि गौतमनाम्ना न्यायाचार्येण मूत्राणि प्रणीतानि, अयं हि गौतमोऽहल्यापतित्वेन प्रसिद्धो गौतममहर्षिरेवेत्यत्र तु प्रमाणं नोपलभे, सूत्राणि चैतानि प्रायः प्रसादरहितान्येव, अस्य च गौतमस्य न प्रकृष्टं सूत्रप्रणयनपाण्डित्यमस्तीत्यग्रे स्पष्टमेव प्रतीयते तथा हि द्वितीयाध्यायद्वितीयाह्निके " सहचरण 63" इत्यादिसूत्रे "ब्राह्मणमञ्च" इत्यादि. वाक्यं नापि लक्ष्यार्थसंग्रहपरं संभवति- तत्र मश्वस्य लक्ष्यत्वाभावात् , नापि लक्षकशब्दसंग्रहपरं संभवति- तत्र ब्राह्मणशब्दस्य लक्षकत्वाभावादेवं कटादिष्वपि तत्र विज्ञेयम् , एवमेवान्यत्रापि बहुषु सूत्रेष्वसंगतिस्तत्र तत्र प्रतिपादितेति विभावनीयम् , अथापि न्यायदर्शनस्य मूलभूतान्येतान्येव सूत्राणीत्यलम् / / एतेषां च न्यायसूत्राणां केनापि वात्स्यायनमिश्रेण न्यायभाष्यं विरचितम् , कश्चायं वात्स्यायनमिश्रः कदा चोत्पन्न इति चाग्रे द्रष्टव्यं. यद्यपि नात्र मे प्रवृत्तिरस्ति अथाप्ययं पतअलिशवरस्वामिनोरनन्तरभावीत्येषां लेखशैलीस्वरूपेण स्पष्टं प्रतिभाति तदेतदने वात्स्यायनसमयसमीक्षायां स्पष्टम् / किं चास्य लेखप्रमादेनानुमिनोमि यत् कामसूत्राणामयमेव कर्तेति, कामसूत्रकारित्वात् कामपरायणत्वं तेन च प्रमादित्वं प्रामोति- अद्यत्वेपि कामपरायणानां प्रमादित्वमनुभूयते इति स्पष्टमेव, अत एवायं बहुत्र स्वलेखेषु प्रमादं करोति, दोषश्चायं सूत्रकारस्याप्यनुभूयते, यदि चायं कामपरायणो नासीत्तदाप्यन्यत्र मनचित्त आसीदित्यत्र तु न संशयः अत एव मन्ये नन्दराज्योच्छेदपरायणचाणक्य एवायमिति एतच्चाग्रे प्रतिपादितम् / यद्यपि न्यायदर्शनस्येदं भाष्यं प्रमाणशिरोरत्नमेव नातः परं प्रमाणमस्ति तथापि ' नैतादृशलेखेनाद्यत्वे कोप्युत्कृष्टपाण्डित्यपदवी प्रामुयादिति स्पष्टं ब्रुवे, बहुत्र चायं वक्तव्यमपि न क्ति बहुत्र चाऽपार्थामेव पुनरुक्तिमातनोतीति मन्ये छात्राणां क्लेशायैवास्य जन्मजातमित्यलं वृले नामधिकसमालोचनया / अस्य भाष्यस्योत्तरोत्तरं लिपिकारैरपि प्रमादो न परित्यक्त इति बहुत्र पाठविकल्पैरनुमीयते, पाठविकल्पाश्चैते श्रीगुरुचरणसंशोधिते न्यायभाष्यपुस्तके स्पष्टमुपलभ्यते, तात्पर्यटीकायां च कचित् कचिदन्यथैव मूलपाठो दृश्यते, मयापि कचित् कचित् तात्पर्यटीवानुकूल्येन वार्तिकानुकूल्येन च मूलपाठः संशोधितः / सूत्राणि तु वार्तिकानुकूल्येनैवोपन्यस्ता जे- तस्यात्र सर्वप्रधानत्वात् / निरङ्कानि चात्र किंचित् स्थूलाक्षर वाक्यानि भाष्यकारस्यैव तत्र व प्रधानवाक्यानि वेदितव्यानि / अस्य दर्शनस्य बहूनि सूत्राणि भाष्यकारात्
SR No.004320
Book TitleNyayadarshanasya Nyayabhashyam
Original Sutra AuthorN/A
AuthorVatsyayan
PublisherManilal Iccharam Desai
Publication Year1922
Total Pages500
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy