________________ षट्पक्षीनिरूपणम् ] न्यायभाष्यम्। 447 इति समानत्वमभ्युपगम्यते. पञ्चमपक्षेपि प्रतिषेधविप्रतिषेधे समानो दोषप्रसङ्गोऽभ्युपगम्यते नार्थविशेषः कश्चिदुच्यते इति / ___तत्र पञ्चमषष्ठपक्षयोरर्थाविशेषात् पुनरुक्तदोषः, तृतीयचतुर्थयोर्मतानुज्ञा, प्रथमद्वितीययो. विशेषहेत्वभाव इति षट्पक्ष्यामुभयोरसिद्धिः / कदा षट्पक्षी ?, यदा “प्रतिषेधेपि सामानो दोषः" इत्येवं प्रवर्तते तदोभयोः पक्षयोरसिद्धिः, यदा तु “कार्यान्यत्वे प्रयत्नाहेतुत्वमनुपलब्धिकारणोपपत्तेः 38" इत्यनेन तृतीयपक्षो युज्यते तदा विशेषहेतुवचनात् प्रयत्नानन्तरमात्मलाभः शब्दस्य नाभिव्यक्तिरिति सिद्धः प्रथमपक्षो न षट्पक्षी प्रवर्तते इति // 43 // // इति वात्स्यायनविरचिते न्यायभाष्ये पञ्चमाध्यायस्य प्रथममाह्निकं समाप्तम् // चतुर्थषष्ठपक्षाभ्यां समान इत्यर्थः, प्रथमतृतीयपञ्चमपक्षा एकस्यैव तत्र यदेव प्रथमपक्षेण प्रतिपादितं तदेव तृतीयपञ्चमपक्षाभ्यामपीति तृतीयपञ्चमपक्षयोः पुनरुक्तदोषः प्राप्त इत्यर्थः / उक्तपुनरुक्तदोषमुपपादयतितृतीयपक्षेपीति, तृतीयपक्षेणापीत्यर्थः, समानत्वम्= द्वितीयपक्षस्य प्रथमपक्षसमानदोषवत्त्वमुपपाद्यते इत्यर्थः / पञ्चमपक्षेपि= पञ्चमपक्षेणापि " प्रतिषेधं सदोषमभ्युपेत्य 42 " इतिसूत्रेण चतुर्थपक्षे दोषप्रतिपादनद्वारा द्वितीयपक्षे दोष उपसंह्रियते इति तृतीयपक्षसमानत्वमुपलब्धमिति पुनरुक्तत्वं सिद्धम् / प्रतिषेधविप्रतिषेधे इत्यस्य चतुर्थपक्षे इत्यर्थः, अत्र 'प्रतिषेधविप्रतिषेधप्रतिषेधे' इति वक्तव्यमासीत्चतुर्थपक्षस्य प्रतिषेधविप्रतिषेधप्रतिषेधरूपत्वात् / उपसंहरति- नार्थेति, तृतीयपक्षापेक्षया पञ्चमपक्षे नार्थविशेष उच्यते इत्यर्थः / __पक्षचतुष्टयं दूषयित्वा पक्षषट्कमपि दूषयति- तत्रेति, पञ्चमपक्षेण चतुर्थपक्षे षष्ठपक्षेण च पञ्चम. पक्षे मतानुज्ञा प्रदर्शितेत्यविशेषात् पुनरुक्तदोषः / किं वा पञ्चमषष्ठपक्षयोरुभयोरपि समानदोषप्रसङ्गप्रदर्शनात् पुनरुक्तदोष इत्यर्थः / तृतीयपक्षवादिना स्वकीयस्य प्रथमपक्षस्य चतुर्थपक्षवादिना च स्वकीयस्य द्वितीयपक्षस्य परप्रदर्शितदोषस्तदनुद्धारात् स्वीकृत इति तृतीयचतुर्थयोः पक्षयोर्मतानुज्ञादोषः प्राप्तः, प्रथमद्वितीययोः पक्षयोः= शब्दनित्यत्वानित्यत्वपक्षयोर्विशेषहेत्वभावः= पूर्वोक्तो विनिगमनाविरह इति पक्षषट्कमपि दुष्टमेवेत्यर्थः, उभयोः= वादिप्रतिवादिनोः पूर्वोत्तरपक्षयोः / षट्पक्षीप्रवृत्तिकारणं जिज्ञा. सते- कदेति / उत्तरमाह- यदेति, यदा प्रतिषेधे= उत्तरपक्षे पूर्वपक्षवद् दोषवत्त्वमतिदिश्यते तदोत्तरोत्तरं प्रतिषेधेषु पूर्वपूर्वपक्षवद् दोषातिदेशसंभवात् षट्पक्षी प्रवर्तते तत्रोभयोरपि पक्षयोरसिद्धिर्भवतिसदोषत्वातिदेशादित्यर्थः / प्रथमपक्षसिद्धिप्रकारमाह- यदा विति, यदा तु 'अनित्यः शब्दः प्रयत्नाऽनन्तरीयकत्वात्' इति प्रथमपक्षः, " प्रयत्नकार्यानेकत्वात् कार्यसमः 37 " इति द्वितीयः पक्षस्तत्र " कार्यान्यत्वे 38" इति तृतीयपक्षो युज्यते= प्रयुज्यते= उच्यते तदा " कार्यान्यत्वे " इत्यनेन प्रथमपक्षे विशेषहेतुवचनात् शब्दस्यानित्यत्वं सिद्धं भवतीति तदने च पक्षाप्रसरात् षट्पक्षी न प्रवर्तते इत्यर्थः / कार्यान्यत्वे इतिसूत्रं पूर्व व्याख्यातम् / तथा च शब्दोच्चारणप्रयत्नस्य साफल्यार्थ तेन शब्दस्यात्मलाभः= उत्पत्तिः स्वीकार्येत्यऽनित्यत्वं सिद्धम्. अभिव्यक्तिस्तु न स्वीकार्येत्युपसंहारः / स्पष्टमन्यत् / भाष्यमिदं गभीराशयरहितमपीन्द्रजालसदृशत्वाद् बुद्धिविक्षेपं करोति // 43 // // इति षट्पक्षीनिरूपणं समाप्तम् / / // इति न्यायभाष्यप्रसन्नपदायां पञ्चमाध्यायस्य प्रथममाह्निकं समाप्तम् //