________________ प्रसन्नपदापरिभूषितम्- [5 अध्याये. १आह्निकेच सति अनेन परपक्षोऽभ्युपगतो भवति / कथं कृत्वा ?, यः परेण " प्रयत्नकार्यानेकत्वात् " इत्यादिनाऽनैकान्तिकत्वदोष उक्तस्तमऽनुद्धृत्य “प्रतिषेधेपि समानो दोषः 39" इत्याह, एवं स्थापनां सदोषामभ्युपेत्य प्रतिषेधेपि समानं दोषं प्रसजतः परपक्षाभ्युपगमात् समानो दोषो भवति. यथा परस्य प्रतिषेधं सदोषमभ्युपेत्य प्रतिषेधविप्रतिषेधेपि समानो दोषप्रसङ्गो मतानुज्ञा प्रसज्यते इति तथाऽस्यापि स्थापनां सदोषामभ्युपेत्य प्रतिषेधेपि समानं दोषं प्रसजतो मतानुज्ञा प्रसज्यते इति, स खल्वयं षष्ठः पक्षः। तत्र खलु स्थापनाहेतुवादिनः प्रथमतृतीयपञ्चमपक्षाः, प्रतिषेधहेतुवादिनः द्वितीयचतुर्थषष्ठपक्षाः, तेषां साध्वऽसाधुतायां मीमांस्यमानायां चतुर्थषष्ठयोरविशेषात् पुनरुक्तदोषप्रसङ्ग:चतुर्थपक्षे समानदोषत्वं परस्योच्यते- “प्रतिषेधविप्रतिषेधे प्रतिषेधदोषवद् दोषः 41" इति, षष्ठेपि " परपक्षाभ्युपगमात् समानो दोषः" इतिसमानदोषत्वमेवोच्यते नार्थविशेषः कश्चिदस्ति / समानस्तृतीयपश्चमयोः पुनरुक्तदोषप्रसङ्ग:- तृतीयपक्षेपि "प्रतिषेधेपि समानो दोषः 39" पञ्चमपक्षवादिना= वादिना. स्वपक्षलक्षणापेक्षया= द्वितीयपक्षेण उपपद्यमानः= प्राप्तो यः प्रथमपक्षे दोषस्तस्योपसंहारे= स्वीकारे कृते तत्र च "इत्थं चानैकान्तिकः प्रतिषेधः" इत्येवं हेतुनिर्देशे च कृते सति= द्वितीयपक्षदोषे प्रदर्शिते सति परपक्षः= परप्रदर्शितो दोषः= स्वपक्षदोषोभ्युपगतो भवति तत्र परपक्षाभ्युपगमात् मतानुज्ञादोषः प्राप्तस्तथा च पञ्चमपक्षवादिनि मतानुज्ञाप्रदर्शनं षष्ठः पक्ष इत्यर्थः, अत्र प्रथमतृतीयपक्षावपि पञ्चमपक्षवादिनो विज्ञेयौ तेन स्वपक्षदोषो नोद्धृत इति मतानुज्ञा / परपक्षाभ्युपगमप्रकारं जिज्ञासते- कथं कृत्वेति, केन प्रकारेणेत्यर्थः / जिज्ञासितप्रकारं प्रतिपादयति- य इत्यादिना, यो दोष इत्यन्वयः, परेण= द्वितीयपक्षवादिना / इत्याह प्रथमपक्षवादीत्यन्वयः, अत्र यत इतिशेषः, प्रथमतृतीयपञ्चमपक्षाणां वक्ता एक एवेत्यनुसंधेयम् / पञ्चमपक्षधारिणो मतानुज्ञादोषापत्तिमाह- एवमिति, प्रथमपक्षवादिना प्रथमपक्षलक्षणा स्थापना सदोषाप्यभ्युपगता-प्राप्तदोषस्यानुद्धारात् , सदोषां च स्थापनामभ्युपेत्य "प्रतिषेधेपि समानो दोषः” इत्यनेन प्रतिषेधे= द्वितीयपक्षे दोषः प्रदर्शितः स चायं तृतीयः पक्षः संपन्नः अस्यैव पञ्चमः पक्षः, परपक्षस्य= प्रथमतृतीयपक्षयोः प्राप्तस्य दोषस्याभ्युपगमात् मतानुज्ञालक्षणो दोषः समानः= चतुर्थपक्षसदृश एव पञ्चमपक्षवादिनोपि भवतीत्यर्थः / अत्र दृष्टान्तमाह- यथेति, परस्य मतानुज्ञा प्रसज्यते यथेत्यन्वयः, यथा परस्य= चतुर्थपक्षधारिणः स्वोक्तं सदोषं प्रतिषेधम्= द्वितीयपक्षमभ्युपेत्य प्रतिषेवस्य प्रतिषेधे= तृतीयपक्षे समानो दोषप्रसङ्गः= "प्रतिषेधविप्रतिषेधे” इत्यनेन दोपप्रसञ्जने मतानुज्ञा प्रसज्यते, अत्र प्रतिषेधे प्राप्तदोषाऽपरिहारात् तदभ्युपगमः प्राप्त इति मतानुज्ञा प्राप्ता स चायं दोषश्चतुर्थपक्षधारिणि प्राप्तः- तेनैव स्वकीयस्य सदोषस्य द्वितीयपक्षस्याभ्युपगमात्. एतद्दोषप्रदर्शनं च पञ्चमः पक्ष इत्यर्थः / प्रकृतमाह- तथेति, चतुर्थपक्षधारिवत् अस्यापि= पञ्चमपक्षधारिण्यपि मतानुज्ञादोषः प्राप्नोति- तेनापि स्वकीयस्य सदोषस्य प्रथमपक्षस्याभ्युपगमादित्यर्थः, एतदोषप्रदर्शनं च षष्ठः पक्षः / अत्र द्वितीयचतुर्थषष्ठपक्षा अपरस्यैकस्यैव विज्ञेयाः। ____ वादिप्रतिवादिनोः पक्षान् संकलयति- तत्रेत्यादिना, स्थापनाहेतुवादिनः= प्रथमपक्षवादिनः, प्रतिषेधहेतुवादिनः= द्वितीयपक्षवादिनः, उत्तरोत्तरं क्रमेण तयोः पक्षाः स्थिता इत्यनुसंधेयम् / तेषाम्= उक्तपक्षाणाम् / चतुर्थषष्ठपक्षयोः पुनरुक्तदोषमाह- चतुर्थेति, द्वितीयचतुर्थषष्ठपक्षा एकस्यैव तत्र य एव प्रथमपक्षे दोषो द्वितीयपक्षेण प्रतिपादितः स एव चतुर्थषष्ठपक्षाभ्यामपि प्रतिपादनीय इति चतुर्थषष्ठपक्षयोः पुनरुक्तदोष इत्यर्थः / उक्तपुनरुक्तदोषमुपपादयति- चतुर्थपक्षे इति, चतुर्थपक्षेणेत्यर्थः, परस्य= तृतीयपक्षवादिनः / चतुर्थपक्षेणोक्तं षष्ठपक्षेतिदिशति- पष्ठेपीति, षष्ठपक्षणापीत्यर्थः / उपसंहरतिनार्थेति, अर्थविशेषः= प्रतिपाद्यार्थभेदः / संप्रति तृतीयपञ्चमपक्षयोरपि पुनरुक्तदोपमाह- समान इति,