________________ नित्यसमनिरूपणम् ] न्यायभाष्यम्। 441 'अनित्यः शब्दः' इति प्रतिज्ञायते. तदनित्यत्वं किं शब्दे नित्यम् ? अथाऽनित्यम् ?. यदि तावत् सर्वदा भवति? धर्मस्य सदा भावाद् धर्मिणोपि सदा भाव इति 'नित्यः शब्दः' इति, अथ न सर्वदा भवति ? अनित्यत्वस्याऽभावाद् नित्यः शब्दः, एवं नित्यत्वेन प्रत्यवस्थानात् नित्यसमः // 35 // अस्योत्तरम्प्रतिषेध्ये नित्यमनित्यभावादनित्येऽनित्यत्वोपपत्तेः प्रतिषेधाभावः॥३६॥ प्रतिषेध्ये शब्दे 'नित्यमनित्यत्वस्य भावात् ' इत्युच्यमानेऽनुज्ञातं शब्दस्यानित्यत्वम्. अनित्यत्वोपपत्तेश्च 'नाऽनित्यः शब्दः' इति प्रतिषेधो नोपपद्यते, अथ नाभ्युपगम्यते ? 'नित्यमनित्यत्वस्य भावात् ' इतिहेतुर्न भवतीति हेत्वभावात् प्रतिषेधानुपपत्तिरिति / उत्पन्नस्य निरोधादऽभावः शब्दस्याऽनित्यत्वं तत्र परिप्रश्नानुपपत्तिः= सोयं प्रश्नः- 'तदानत्यत्वं किं शब्दे सर्वदा भवति ? अथ न?' इत्यनुपपन्नः, कस्मात् ? उत्पन्नस्ययो निरोधादऽभावः शब्दस्य तद् अनित्यत्वम्. एवं च सत्यधिकरणाधेयविभागो व्याघातान्नास्तीति / नित्यानित्यत्वतिष्ठति तदाप्यनित्यत्वराहित्यात् शब्दस्य नित्यत्वं स्यादेवेति एषा नित्यसमा जातिरिति सूत्रार्थः / व्याचष्टे- अनित्य इति / द्विधा विकल्पयति- तदिति / प्रथमकल्पेन शब्दस्य नित्यत्वापत्तिमाहयदीति / द्वितीयकल्पेनापि शब्दस्य नित्यत्वापत्तिमाह- अथेति, सर्वदा= नित्यम् / निर्वक्ति- एवमिति / नित्यत्वेन= नित्यत्वमाश्रित्य= नित्यत्वसाधनार्थमितियावत् / स्पष्टं सर्वम् / / 35 // अग्रिमसूत्रमवतारयति- अस्येति, अस्य= उक्तस्य नित्यसमस्य / प्रतिषेध्ये इति- प्रतिषेध्ये= शब्दे नित्यमनित्यभावात्= सर्वदेवानित्यत्वस्वीकारादनित्ये शब्दे ह्यनित्यत्वमुपपद्यते तेन प्रतिषेधस्य= नित्यसमस्याऽभावः= असंभव इत्यन्वयः, यदा हि त्वया प्रतिषेध्ये शब्दे सर्वदेवानित्यत्वं स्वीक्रियते तदा शब्देऽनित्यत्वमुपपन्नमिति कथं शब्दस्य नित्यत्वमापद्येत तथा च प्रतिषेधः= नित्यसमा जातिर्नोपपद्यते किं वाऽनित्यत्वप्रतिषेधो नोपपद्यते, न चाऽनित्यत्वाधारत्वेन शब्दस्य नित्यत्वापत्ति:- यावत्पर्यन्तं शब्दस्तावत्कालपर्यन्तमेवानित्यत्वाधारत्वस्वीकारात्. अनित्यत्वं परित्यज्य शब्दस्थितेरस्वीकारात्. यद्यनित्यत्वरहितस्य शब्दस्य सत्ता स्वीक्रियेतानित्यत्वविशिष्टस्य वा सर्वदा तदायं दोषः स्यादपि न चैवमस्तीत्याशय इतिसूत्रार्थः / अत्र- "प्रतिषेध्ये नित्यमनित्यत्वमिति ब्रुवताऽभ्यनुज्ञातमनित्यत्वम् अभ्यनुज्ञानाचासमर्थः प्रतिषेध इति" इतिवार्तिकम् / व्याचष्टे-प्रतिषेध्ये इति, नित्यम्= सर्वदा, भावात= सत्त्वात् , शब्दस्यानित्यत्वानुज्ञानादनित्यत्वमुपपन्नं तादृशानित्यत्वोपपत्तेश्च 'नानित्यः शब्दः' इतिप्रतिषेधः= शब्दानित्यत्वप्रतिषेधो नोपपद्यते इत्यन्वयः / द्वितीयक्षमाह- अथेति, यदि शब्दे नित्यमऽनित्यत्वं नाभ्युपगम्यते तदा "नित्यमनित्यभावात्" इति यो हेतुरुक्तस्तत्स्वरूपासिद्धिर्जातेति हेतोः पक्षावृत्तित्वेन हेत्वभावात् प्रतिषेषानुपपत्तिः= अनित्यत्वप्रतिषेधस्य नित्यत्वसमाधानस्य चानुपपत्तिरित्यन्वयः / अनित्यत्वस्वरूपमाह- उत्पन्नस्येति, उत्पन्नस्य शब्दस्य निरोधात्= विनाशाद् योऽभावः स एवाऽनित्यत्वम् तत्र= अनित्यत्वे एतादृशे सिद्धे तद्विरुद्धं नित्यत्वं नोपपद्यते इति नित्यत्वोपपादनार्थ प्रश्नोनुपपन्न इत्यर्थः / उक्त विशदयति- सोयमिति / प्रश्नवाक्यमाह- तदिति / सोयं प्रश्नोनुपपन्न इत्यन्वयः / प्रश्नस्यानुपपन्नत्वे हेतुं जिज्ञासते- कस्मादिति / हेतुमाह- उत्पन्नस्येति, पूर्ववदेवान्वयः / पर्यवसितमाह- एवं चेति, यदा ह्युत्पन्नस्य शब्दम्य विनाशाद् योऽभावस्तदेवानित्यत्वं तदा हि तादृशमनित्यत्वं शब्दे स्थातुमेव न शक्नोति- शब्दस्य विनष्टत्वाद् विनष्टे च पदार्थे स्थितेरसंभवादिति व्याघाताद् अधिकरणाधेयविभागः= आधाराधेयभावः शब्दानित्यत्वयोर्नोपपद्यते इति नोक्तः प्रश्न उपपद्यते