________________ 440 प्रसन्नपदापरिभूषितम्- [5 अध्याये. १आह्निकेदृष्टान्ते च साध्यसाधनभावेन प्रज्ञातस्य धर्मस्य हेतुत्वात्तस्य चोभयथा भावान्नाविशेषः // 34 // दृष्टान्ते यः खलु धर्मः साध्यसाधनभावेन प्रज्ञायते स हेतुत्वेनाभिधीयते. स चोभयथा भवति- केन चित्समानः कुतश्चिद्विशिष्टः, सामान्यात् साधर्म्य विशेषाच्च वैधर्म्यम् . एवं साध hविशेषो हेतुः नाऽविशेषेण साधर्म्यमात्रं वैधर्म्यमानं वा. साधर्म्यमात्रं वैधर्म्यमात्रं चाश्रित्य भवानाह- " साधर्म्यात्तुल्यधर्मोपपत्तेः सर्वानित्यत्वप्रसङ्गादनित्यसमः 32" इति. एतदयुक्तमिति / अविशेषसमप्रतिषेधे च यदुक्तं तदपि वेदितव्यम् // 34 // नित्यमनित्यभावादनित्ये नित्यत्वोपपत्तेनित्यसमः // 35 // प्रतिज्ञाद्यवयवयुक्तं भवतीति प्रसिद्धमेव तदेव साधर्म्यम् / प्रकृतमाह- तदिति, अनित्यसाधर्म्यात= घटादिसाधयेपि / उक्ते हेतुमाह- साधादिति, त्वन्मतेन साधात् साध्यसिद्धिर्न भवतीति घटादिसाधादपि यदि शब्दस्यानित्यत्वासिद्धिस्तदा प्रतिषेधस्यापि= नित्यः शब्द इत्यनुमानस्यापि= शब्दनित्यत्वस्याप्यसिद्धिः- प्रतिषेध्यसाधम्र्येण प्रवृत्तत्वात्= प्रतिषेध्यं यदनित्यत्वानुमानं तत्साधम्र्येण * प्रवृत्तत्वात् . साधयै च प्रतिज्ञाद्यवयवयोग इति न शब्दनित्यत्वापत्तिर्न वा शब्दानित्यत्वपरिहारस्योपपत्तिरित्यर्थः // 33 // अनित्यसमस्य समाधानान्तरमाह- दृष्टान्ते इति, दृष्टान्ते साध्यसाधनभावेन साध्यस्य साधन. भावेन साध्यव्याप्यत्वेन प्रज्ञातस्य प्रमितस्य कृतकत्वादिधर्मस्य हेतुत्वात्= हेतुत्वसंभवात् तस्य हेतुत्वस्य च मदीयहेतौ उभयथा= अन्वयव्याप्त्या व्यतिरेकव्यात्या च भावात्= सत्त्वात् त्वदीयहेतोर्मदीयहेतोश्चाविशेष: साम्यं नास्ति- त्वदीयहेतौ साध्यव्याप्यत्वाभावादिति सूत्रान्वयः, एवमेव वृत्तिकारेणापि सूत्रमिदं व्याख्यातम् / तथा च शब्दानित्यत्वेपि सर्वानित्यत्वापत्तिर्नास्ति- सत्त्वादिहेतोर. ऽनित्यत्वव्याप्यत्वाभावादित्यर्थः / व्याचष्टे- दृष्टान्ते इति, धर्मः कृतकत्वादिधर्मः / सः साध्यव्याप्यः, हेतुत्वेनाभिधीयते- हेतुरित्युच्यते किं वा हेतुत्वेन प्रदर्श्यते इत्यर्थः, उभयथा अन्वयव्यतिरेकाभ्याम् , केन चित्= सपक्षेण समानः= सपक्षसाधम्र्येण प्रवृत्तः, कुतश्चित्= विपक्षाद् विशिष्टः= विपक्षवै. धम्र्येण प्रवृत्तः, अन्वयव्यतिरेकव्याप्तिभ्यां प्रवृत्त इत्यर्थस्तदेतत् हेतुलक्षणे स्पष्टमेव / साधर्म्यकारणमाहसामान्यादिति, सामान्यात्= सादृश्यात् अन्वयव्याप्त्या, वैधर्म्यकारणमाह- विशेषादिति, विशेषात्= वैपरीत्यास्= व्यतिरेकव्याप्त्या / पर्यवसितमाह- एवमिति, साधर्म्यविशेषः= अन्वयव्यतिरेकव्याप्तिप्र. युक्तमेव साधर्म्य हेतुः= साध्यसाधकं भवति. अविशेषेण= अन्वयव्यतिरेकव्याप्त्यऽप्रयुक्तं तु साधर्म्य वा वैधय वा साध्यसाधकं न भवतीत्यर्थः / प्रकृतमाह- साधर्म्यमात्रमिति / यदुक्तं तदनुवदति- साधा. दिति, सूत्रं चैतत् पूर्व व्याख्यातम् , अन्वयव्यतिरेकव्यात्यऽप्रयुक्तेन घटसाधर्म्यमात्रेण सर्वस्यानित्यत्वं भवानाऽऽपादयति न तु विशेषसाधयेणापि, तत्र 'सर्वमनित्यं सत्त्वाद् घटवत्' इत्युक्ते सत्त्वादितिहेतुरऽनित्यत्वव्याप्यं नास्ति- नित्येप्याकाशादौ तत्सत्त्वादित्यर्थः / उपसंहरति- एतदिति, यदुक्तं तदयुक्तम्सामान्यसाधमर्म्यमाश्रित्योक्तत्वात् सामान्यसाधर्म्यस्य चासाधकत्वादित्यर्थः / पूर्वोक्तमण्यत्रातिदिशतिअविशेषेति, भविशेषसमप्रतिषेधे= चतुर्विशतिसूत्रभाष्ये- " तत्र प्रतिज्ञार्थव्यतिरिक्तमन्यदुदाहरणं नास्ति अनुदाहरणश्च हेतुर्नास्तीति" इत्यादि यदुक्तं तदपि अनित्यसमप्रतिषेधरूपमेवेति वेदितव्यम्- अत्रापि सर्वस्य पक्षत्वेन दृष्टान्तस्याभावादित्यर्थः / स्पष्टमन्यत् / / 34 / / नित्यसमां लक्षयति- नित्यमिति, अनित्ये शब्दादिपदार्थे नित्यम्= सर्वदाऽनित्यभावात् अनित्यत्वस्थित्या नित्यत्वोपपत्तेः नित्यत्वोपपादने नित्यसमा जातिरित्यन्वयः, यदि शब्दे सर्वदैवाऽनित्यत्वं तिष्ठति तदा तदाधारस्य शब्दस्यापि सर्वदा सत्त्वं स्यादिति नित्यत्वं स्यादेव. यदि चानित्यत्वं न सर्वदा