________________ किच. लक्षणव्यवस्थानादेवा प्रतिषेधः // 4-1-36 // अप्रतिषेधः= जातिप्रतिषेधः किं वा सर्वाभेदप्रतिषेधो नोपपद्यते, कस्मात् ? लक्षणव्यवस्थानादेवेत्युच्यते, लक्षणस्य= आकृतेर्व्यवस्थानात्= गवादिव्यक्तिषु व्यवस्थितत्वात्= अव्याप्त्यतिव्याप्तिरहितत्वादित्यन्वयः, शृङ्गसानादिसंयोगो हि सर्वासु गोव्यक्तिष्वनुगतरूपेण वर्तते एव- बाधकाभावात्, तेन च जातिरभिव्यज्यते, ब्राह्मणजातिरित्यादिपदवाच्या च जातिरेव, जात्यभाषे एतादृशशब्दानामर्थशून्यत्वमेव स्यान चैतद्युक्तमुत्पश्यामः / तस्मात् सिद्धा जातिस्तया चाभेदोपि सिद्ध इति सर्वमवदातमित्यलम् // 3 // इति जातिसमर्थनम् / / अवयविनस्तु सिद्धयर्थं भाष्यकारेण वर्णितम् / इदं सूत्रत्रयं तत्तु जातिसिद्धिकृते मया //