________________ अथ सूत्रकारस्य तात्पर्य बुद्धा स्वमतिमात्रतः / सूत्रत्रितयभाष्यं च करोत्येष सुदर्शनः // इदमन्यद् बौद्धमतम्.. सर्व पृथक्- भावलक्षणपृथक्त्वात् // 4-1-34 // सर्व पदार्थमात्रं पृथक्= नैयायिकादिभिर्यत् गवादिव्यक्तीनां गोत्वादिजातिभिरभेद उच्यते तन्नोपपद्यते, कुतः ?, भावलक्षणपृथक्त्वात्= भावलक्षणस्य= जातिशब्दवाच्याया आकृतेः पृथक्त्वात्= गवादीनां तत्तव्यक्तिमात्रे पर्याप्तत्वात्= सर्वासु व्यक्तिष्वनुगतत्वाभावात् , अयमर्थः- आकृत्यतिरिक्ता तु जातिनिरूपयितुमेव न शक्यते. आकृतिश्च प्रतिव्यक्ति पर्यासैवोपलभ्यते अत एव 'नेयं सा गौः' इतिविशेषप्रतीतिर्भवति / व्यवहारश्च व्यक्त्यैव सिध्यतीति व्यर्थो जातिस्वीकारः / गवादिशब्दवाच्यत्वग्रहश्च लोकव्यवहारात् सिध्यन् न जातिमपेक्षते इति गवादिव्यक्तीनामभेदकारणीभूताया जातेरभावात् सर्व पृथगेव / किं च नित्या जातिरित्युच्यते न च कस्यापि नित्यत्वं संभवति- सर्वस्य क्षणिकत्वात् 'यत् सत् तत् क्षणिकम्' इतिव्याप्तेर्वाधासंभवात् उक्तं च " पृथक्त्वे व्यक्तितो जातिश्येत पृथगेव सा। अभेदे व्यक्तिमात्रं स्याद् द्वेधा चेन विरोधतः॥ नाऽऽयाति न च तत्रासीदस्ति पश्चान्न चांशवत् जहाति पूर्व नाधारमहो व्यसनसंततिः // " इति // 1 // अत्रोच्यते न-अनेकलक्षणैरेकभावनिष्पत्तेः // 4-1-35 // यदुक्तम्- 'सर्व पृथक्- जात्यभावात् ' इति तन्नोपपन्नते तस्मात् ? जात्यात्मना व्यक्तीनामभेदस्यापि संभवात् न सर्व पृथगेवेत्यर्थः कस्मात् ? अनेकलक्षणैरेकभावनिष्पत्तेः= अनेकैर्लक्षणैः= आकृतिशब्दवाच्यैर वयवसंयोगैरेकभावस्य व्यक्तनिष्पत्तेः= जायमानत्वादित्यन्वयः / शृङ्गसास्नाद्यनेकावयवसंयोगेनैव गवादिव्यक्तिनिष्पत्तिरुपलभ्यते स तु संयोगः सर्वासु गवादिव्यक्तिषु प्रत्यक्षमीक्ष्यते इति न तस्यापलापः संभवति / यदुक्तम्- 'नेयं सा गौः' इति प्रतीतिरनुगतधर्माभावादेव संभवतीति तत्रोच्यते- द्विविधा ह्याकृतिरस्ति तत्रैका सर्वानुगता तामेवाश्रित्य ' इयमपि गौरियमपि गौः' इत्यनुगता प्रतीतिर्भवति. अपरा च तत्तधक्तिपर्याप्ता तां चाश्रित्य 'नेयं सा गौः' इतिविशेषप्रतीतिरप्युपपद्यते / आकृत्या च याभिन्यज्यते सा जातिरित्युच्यते, आकृतिजात्योश्च भेदः प्रत्यक्षसिद्ध एव, जातिं च विना शब्दशक्तिग्रहो न संभवति / अनेके चावयवसंयोगा न तेषां वाच्यत्वमुपपद्यते- एकस्य वाच्यत्वसंभवादिति सिद्धम्- अस्ति जातिरिति, जात्या च व्यक्तीनामभेद इति न सर्व प्रयगेवेति // 2 //