________________ धातुप्रदीपः। चादादिकाः परस्मैपदिनो विज्ञेया इत्यर्थः / तेभ्योऽपि शपो लुक् परस्मैपदञ्च / बोभवीति / वावदीति / इति षसप्रभृतयः परस्मैभाषाः। इङ, अपनयने / 72 / गते / इवाते / गवते / पुत्रायापङ्ग ते वणिक् / देवदत्तायापगते। देवदत्तमपङ्ग ते / निजुहू वे। होता। निजुहू पते / इतः। अपह्न तिः। इति प्रात्मनेभाषोऽनुदात्तः। अयमात्मनेपदीति पूर्वमुकारान्तमध्येऽजन्तवर्गे नोपदिश्यते / हदित्यदादिपरिसमातेः / इति महामहोपाध्यायत्रोमैत्रेयरक्षितकतौ धातुप्रदीपेऽदादौनां कृत्तिः // 2 // अथ जुहोत्यादय उच्यन्ते। हु दाने / आदानेऽप्ये के / 1 / जुहोति / जुहुतः / जुह्वति / अनादिवचननिमित्तेऽचि यणादेशः कत इति दिर्वचनेऽचीति (1 / 1 / 58) स्थानिवदभावो न प्राप्नोति / ततश्चानचकत्वादद्दिवचनं भवितं नाईतीति न राजनीयम् / कते हि विचंने एरनेकाचोऽसंयोगपूर्वस्येत्यनुवृत्तेः (6 / 4 / 82) हुश्रुवोः सार्वधातुक इति (64.87) यणादेशविधानात्। जुहाव जुहवाञ्चकार। जुहुवतुः / जुहुवुः / जुहोतु / जुधि / जुहवानि। अजुहोत् / अजुहुतां / अजुहवुः / अहौषीत् / अहौष्टाम् / अहोषुः / जुह्वत् / जुद्ध तौ / होता / हुतम् / इविः / - जिभी भये / 2 / बिभेति / बिभीतः बिभितः। बिभ्यति / विभाय विभयाञ्चकार / अभैषीत्। भीषयते मुण्डो भापयते वा शरैर्भाययति / भीतमस्य / भयम् / भौतिः / भौः / भियौ। (1) (1) गातिस्थाधुपाभूभ्यः सिच: परस्मै पर्दष्वित्यत्र (27) कैचिद विभेते सौ निर्देश इत्याः / तत्र एरमेकाच इति (42) यण्। तेनास्य खुङि अभैदित्यादीति च वदन्ति / अतएव मा भैः शशाङ्क मम शोधुनि नास्ति राहुरिति। अन्ये त्वतन्न सहन्ते / तथाच भट्टिः माय भैषौस्वयाव कवार्थों द्रक्ष्यते पतिरिति / मा भैषोः पुत्रि सौते व्रजति मम पुरो नैष दूरं दुरात्मेति च महानाटके / वस्तुतस्तु मा भैरित्यादि पदं प्रामादिकमेवेति बहवः / एकान्ततः समर्थनाग्रह स्वागमशासनमनित्यमिति यथा कथञ्चित् समाधेयम् /