________________ धातुप्रदीपः। मेङ् प्रणिदाने / 068 / अपमयते। अपमित्य याचते अपमाय याचते। अपमीयते / मितिः / मितम् / / देङ् रक्षणे / 870 / दयते / प्रणि दयते / दीयते / दयतेर्दिगि लिटौति (7 / 4 / 8) दिग्यादेशन द्विवचनबाधेष्यते / दिग्ये / दत्तम् / श्यैङ, गती। 871 / श्यायते / अवश्यायः / शोनं घृतम् / / शीतो वायुः। प्यैङ् वृद्धौं / 872 / प्यायते / पप्ये / पप्याते / प्यानम् / बैङ् पालने / 873 / त्रायते। तो। नाण: वातः / इति एते अनुदाताः स्मयतिप्रभृतयः / पूङ् पवने / 894 / पवते / पुपुवे / पविता / पूडश्चेति ( 7 / 2 / 51 ) वेट / पवितः पूतः। पवित्वा पूत्वा / पिपविषते / पुनातीति पूजो रूपं कैयादिकस्य / मूङ् बन्धने / 875 / मवते / मविता / मूतः / मूत्वा / डीड् विहायसा गतौ / 876 / डयते / डिडेय / डयिता। डयिष्यते / चिणवद्भावपक्षे डायिष्यते। डिडयिषते / डयितः। डयितवान्। डयते: परस्य निष्ठाप्रत्ययस्य मेटः कित्त्वप्रतिषेधी धातुपारायण उपसंख्यातः / इति आत्मनेभाषाः। तृ प्लवनतरणयोः / 877 / तरति / ततार / तेरतुः / तेरुः / तरिता तरीता। अतारीत्। तितरिषति तितरौषति तितीर्षति / तौर्णः / तीर्णवान् / तीर्खा / तरः / प्रातरः / प्रातरिकः / इति परस्पैभाष उदात्तः / सेट्त्वादस्य प्रानिर्देशो न कृतः / गुप गोपनकुत्सनयोः / 878 / जुगुप्सते / निन्दाक्षमाव्याधिप्रतीकारेषु सनिष्पत इति वचनानिन्दायां सन् / जुगुप्साञ्चके / निन्दाया अन्यत्राप्यर्थेऽस्मात् केवलादात्मनेपदं न भवति। अनभिधानात् / तदुक्तं "नेतेभ्यः सनः प्रागात्मनेपदं परस्मैपदं वा पश्याम इति" (96) तत् केवलादात्मनेपदार्थम (96) भाष्यकारवाक्यमिदमवीर तम् /