________________ 46 धातुप्रदीपः। ईष गतिहिंसादानेषु / 615 / ईषते / ईषाञ्चके | प्रकारः ईषा। मनस ईषा मनीषा। पृषीदरादिः / व्रीह्यादित्वादिनिः मनीषी। घञ्प्रेषः / ण्यत् प्रेथः / गवुल ईषिका / ईष्व इति वनन्तस्य निपातनमस्य / ईषतोत्यग्रे वक्ष्यते / प्रेष यत्ने / 616 / प्रेषते / अपिप्रेषत्। येष प्रयत्ने / 617 / येषते / अयियेषत् / जेषणेस एष हेष गतौ / 618-621 / जेषते / प्रजिजेषत् / नेषते / प्रणेषते / प्रनिनेषते / एषते / अध्येषते अन्वेषते / मा भवानेषिषत् / हेपते / "हेषा वाजिध्वनौ स्त्रियाम्"। र हेष अव्यक्तशब्दे / 6221623 / रेषते / अरिरेषत् / हेषते / जिहषे / . . अजिहेषत् / उपजिहेषिषते / हेषा हेषा च निःस्खन इत्यमरः / (72) कास शब्दकुत्सायाम् / 624 / कासते। कासाञ्चके / कासो रोगः / रोगाख्यायां ण्वुल बहुलम् (3 / 3 / 108) / उत्कासिका। भास दीप्तौ / 625 / भासते / बभासे / अबीभसत् अबभासत् / भाखरः / भञ्जभासमिदो घुरच् (32 / 161) / भासुरम् / ग्रह्यादिणिनिः / उभासी / किए भाः भासी भासः / आत्मनेपदार्थमकारानुबन्धे कर्तव्य ऋकारानुबन्धकरणमस्य ऋकारानुबन्धप्रकरणात् / एवञ्चानुबन्धान्तरकरणञ्च न प्रकरणानुरोधेन / ___णास रास शब्दे / 626 / 627 / नासते प्रणासते। नासा। नासिका। अञ् नासिकाया इत्यच् (5 / 4 / 118) नसादेशश्च / गोनसम् / खुरखराभ्याञ्च नस् वक्तव्यः। खुरणाः खरणाः / अच्प्रत्ययोऽपोष्यते। खुरणसः खरणसः / उपसाचेत्यच्-(५।४।११८) नसादेशौ / प्रणसः। वो वक्तव्य इति प्रभावे विग्रस्तु गतनासिकः। केचित्रासिकापर्याये नसाशब्दमिच्छन्ति / तथाच वगहनक्षत्रपुरुषप्रकाशे नसाशब्दः प्रयुक्तः। भटिकाव्येपि विनसा हतबान्धवैति दृश्यते / न चासावुपसर्गाचेति (5 / 4 / 118) नसादेशे सिध्यति / वेनों वक्तव्य इति ग्रादेशेन बाधितत्वात् / (73) रासते / ररासे / (72) हषा रेषेति प्रश्वशब्द / अमरेऽश्वप्रकरणात्। (73) मतान्तरे भट्टिप्रयोग विनासिकाशब्दे कर्मधारयः। तत उपलक्षणे कृतीया /