________________ 45 धातुप्रदीपः / निषेधस्यानित्यवादिटोऽनित्यता। वौजन कतिचूतिनृतीनामोदित्करणम् / तद्धि खोदितो निष्ठायामिति (72 / 14) निषेधार्थ क्रियते / यस्य विभाषेति (12 / 15) निषेधस्यानित्यत्वे तु तेनैव सिद्धत्वादनर्थक तत् स्यात् / षादित्वात् कलच् / बाहुल्यादुपधाहखत्वम्। धवलः / धवला। "नीता येन निशा शशाधवला / " ण्वुल धावकः / लुट धावनम् / तिन् धौतिः / / उभयतोभाष इति उभयपदी भण्यते / स्वरितत्त्वात् स्वरितदिति / स्वरित इत्संज्ञकोऽस्येत्यर्थः। तस्य प्रयोजनं स्वरितजितः कर्चभिप्राये क्रियाफल इति (1 / 3 / 72) प्रात्मनेपदम् / हिक्कादिषूभयपदिष्वयं न पठ्यते। तेषां कवर्गान्तप्रकरणानुरोधेन / अस्य चान्तःस्थान्तप्रकरणानुरोधात् / / 'अथ अमान्ता प्रात्मनेपदिन: कथ्यन्ते / धुक्ष धिक्ष संदीपनलेशनजीवनेषु / 602 / 603 / धुक्षते / दुधुक्षे / संधुक्षणम् / धिक्षते। वृक्ष वरण / 604 | वृक्षते / वृक्षः / शिक्ष विद्योपादाने / 605 / शिक्षते / शिक्षा | शेक्षः / छत्रादिभ्यो णः (4.4 / 62) / शैक्षा। भिक्ष याच्आयां लाभेऽलाभे च / 606 / भिक्षते / भिक्षा। भिक्षुः / भिक्षासमूहे भिक्षादिभ्योऽण (4 / 2 / 38) / भैज्ञाम् / क्लेश व्यक्तायां वाचि / 607 / क्लेशते / चिक्लेशे / दक्ष वृदो शीघ्रार्थे च / 608 / दक्षते / दक्षः / दक्षिणम्। टुदक्षिभ्या. मिनन् (उणु, 21208) / दक्षिणा / दीक्ष मौण्डेयज्योपनयननियमव्रतादेशेषु / 60 / दीक्षते / दीक्षा। दीक्षितः / ईक्ष दर्शने / 610 / ईक्षते / ईक्षाञ्चके। ईक्षणम् / भाष व्यक्तायां वाचि / 611 / भाषते / बभाषे / भाषा / ण्यत् भाष्यम् / विनिः मितभाषी / भाषितम् / पर्ष वर्ष स्नेहने / 6121613 पर्षते / वर्षते / ववर्षे / ग्लेषु अन्विच्छायाम् / 614 / ग्लेषते / अजिग्लेषत् /