________________ धातुप्रदीपः। थते। तत्र विष्याठफलं ब्रुवते व्रश्वादिसूत्रे (8 / 2 / 36) राजिसहचरितस्य भ्राजे ग्रहणमं यथा स्यादिति। तेन भ्राष्ट्रिः वाक्तिरिति हयमुपपद्यते। आत्मनेपदानित्यत्वार्थमित्येके। तहिकल्पञ्च यथाभिधानं बोधयति / तेन लभते लभति सेवते मेवति मोदते मोदति इत्यादि सिध्यति / ईज गतिकुत्सनयोः / 178 / ईजते / ईजाञ्चके / वौज्यते / इति आत्मनभाषा उदात्ता अनुदातेतः / उदात्ता: सेट इत्यर्थः / अथ चवर्गान्ताः परस्मैपदिनः / ___शुच शोके / 180 / शोचति / शुशोच / शोकः / शुक् / शुक्रो मासः / तथा शुचिः / . ____ कुच शब्दे तारे च / 181 / कोचति / चुकोच / कुचः / कुच संपर्चनकौटिल्यप्रतिष्टम्भविलेखनेष्विति ज्वलादौ पठिष्यते / पुनरिहार्थभेदेन पठ्यते / कुन्च क्रुन्च नौटिल्याल्पीभावयोः / 182 / 183 / कुकृति / चुकुञ्च / कुचितम् / कुञ्चित्वा। कुञ्चिता। कुञ्चिका। कुक / क्रुञ्चति / क्रुङ / क्रुञ्चौ / स्त्रियां क्रुचा / चोः कुरित्यत्र (8 / 2 / 30) जोपधत्वमस्योक्तम् / तेनोपधालोपो न भवति / अन्येतु ऋत्विगादिसूत्रे (3 / 2 / 58) निपातनैः सह निर्देशाबलोपाभावमाहुः / _ लुञ्च अपनयने / 184 / लुञ्चति / लुलुञ्च / लुञ्चित्वा लुचित्वा। लुचितम् / मृष्टलुचितम् / लुक् / लुक्काययति। अच्चु गतिपूजनयोः / 185 / अञ्चति / आनञ्च / अञ्चित्वा अक्वा / भक्तः / अञ्चोऽनापादने इति (8 / 2 / 48) निष्ठानत्वम्। समनः! उदक्त मुदकं कूपात् / अञ्चिता अस्य गुरवः / प्राङ् / सभ्राङ / पूजायां प्राचा प्राङ्भ्याम् प्राभिः : गतौ प्राचा प्राग्भ्यामित्यादि। स्त्रिया मञ्चतेरुपसंख्यान मिति डीप (416 / 6 वा)। अचइत्यकारलोपे ( 6 / 4 / 138) चाविति ( / 2 / 138) दीर्घत्वम् / प्राची। उदईदीति (18 / 138) ईकारः / उदीची। बाहादिषदञ्चशब्दः पठ्यते। औदञ्चिः / शैषिके द्यु प्रागित्यादिना (4 / 2 / 101) यत्। प्राचि जातः प्राच्यो गजः / विभाषाञ्चे (5 / 4 / 8) रिति खः / प्राचीनो हषः / प्राचीना ब्राह्मणी।