________________ 18 .. धातुप्रदीपः / 120 - 151 / ओखति / पोखति। उवोख। अभ्यासस्यासवर्ण (6 / 4 / 78) इतीयडुवडोविधानसामर्थ्याद हलादिशेषो न भवति। अखतः। अत्रैकादेशस्य पूर्व प्रत्यन्तववादभ्यासग्रहणन ग्रहणे सति इवत्व प्राप्नोति। तदभ्यासप्रकत्यवयवयोरेकादेशस्य बहिरङ्गत्वेनासिद्धत्वादभ्यासमावाश्रयं इस्वत्वं न भवति / उखा। उचिखिषति। औचिखत्। ओणदित्करण जापर्क नित्यमपि दिवचनमुपधाकार्येण बाध्यत इति लघूपधगुणे कृते हिर्वचनम् / मा भवानुचिखत्। नखति। नखः / वखति / मखति। मखो यज्ञः / रखति / लखति / वसति / लक्षति / इति / प्रेक्षणम् / ईजति / वलाति / वलितम् / गुरोश्च हलः (23 / 103) / वला / रङ्गति / रङ्गः / वङ्गति / वङ्गाः / लङ्गति। विलकति / इलयोरकत्वस्मरणाद् विडङ्गः। लङ्गिकम्योरपताप. शरीरविकारयो (6 / 4 / 34, वा) रुपसंख्यानमित्यनुनासिकलोपः / विलगितम् / अङ्गति / अङ्गाः / पृषोदरादित्वासत्वम् / अङ्गणं चत्वरम् / अङ्गिमदिमन्दिभ्य आरन् ( उण, 3 / 414 ) अङ्गारः। अङ्गारसमूहे पाशादिभ्यो यः (4 / 2 / 48) / अनार्यः / मङ्गति / मङ्गरलच् ( उण , 5 / 748) / मङ्गलम् / तत्र साधुरिति (4 / 4 / 88) यत्। मङ्गल्यम् / तङ्गति / तङ्गः / त्वगि कम्पने च / त्वङ्गति / तत्वङ्ग / (34) त्वङ्गः / नङ्गति / खगति / श्रङ्गति / श्लङ्गति / इङ्गति / इजादेः सनुम इति (8 / 4 / 32) णत्वम् / प्रेङ्गणम् / इङ्गितम् / रिङ्गति / लिङ्गति | लिङ्गम् / युगि जुगि रुगि वर्जने / 152-154 / युगति / जुङ्गति / रुङ्गति / दघि पालने / 155 / दङ्घति / (35) लधि शोषण / 156 / लङ्घति / ललक / लङ्घनम् / लङ्घत इति गत्यर्थ. स्थात्मनेपदिनः / अस्यापि गतो वृत्तिदृश्यते। तथाच भट्टिः “अन्ये चालजिषुः शैन्लान् गुहास्वन्ये न्यनेषत / " इति (36) (34) उखि मखि गखि रखि इखि इत्येते माधवभट्टीजिभ्यामधिकाः पठिताः। वगि श्वगि इति तु तयो ग्रन्थेषु नास्ति / (35) अयं माधवभट्टीजिभ्यां न पठितः। - (36) नाप्ययं माधवादिभिः पठितः।