________________ 14 धातुप्रदीपः। धातोः क्रियावचनत्वात्। एवमन्यत्रापि ट्रव्यनिहेंशे क्रिया लक्ष्यते / दन्दंशन इत्येतत्रोक्तम् / ताच्छील्यार्थस्य संग्रहो (22) न स्यादिति / खर्दति / चख / __ अति अदि बन्धने / 6061 / अन्तति / अन्तः / अन्दति / प्रानन्द / प्रानन्दतुः / अन्दिदिषति / अन्दूः / अन्दुकः। इदि परमैखयें / 62 / इन्दति / इन्दाञ्चकार / इन्दिदिषति / इन्द्रः / इन्द्रवरुणेत्यादिना (4 / 1 / 48) डीषानुको। इन्द्राणी। अतइञ् (4 / 1 / 95) ऐन्द्रिः / सास्य देवता (4 / 2 / 24) / ऐन्द्रं हविः / छ च (4 / 2 / 28) / महेन्द्रा घाणौ च (4 / 2 / 28) / महेन्द्रीयम् महेन्द्रियम् माहेन्द्रम् / तस्येदमित्यण (4 / 3 / 120) / ऐन्द्रं धनुः / शिशुक्रन्देत्यादिना (4 / 3288) छः / इन्द्रजननमधिकृत्य कृतो ग्रन्थ इन्द्रजननीयः / इन्द्रियमिन्द्र लिङ्गमित्यादी (5 / 2 / 83) निपात्यते / इन्द्रियम् / विदि अवयवे / 63 / विन्दति / विविन्द / अस्यापि विन्दुरिच्छरिति (3 / 2 / 168) निपातनमिच्छन्ति / जयादित्यस्तु विद ज्ञान इत्यस्यैव सन्निपातनमाह / (23) / -णिदि कुत्सायाम् / 64 / निन्दति / प्रणिन्दति। निन्दकः / निन्दा / अस्य नोपदेशव वैचित्रमार्थम् / वा निस निक्षनिन्दामिति (8 / 4 / 33) विकल्पविधानात् / केचित्तु कृति प्रत्यये विकल्प मिच्छन्ति / तिङि पुनरुपसर्गादसमामेऽपी-(८।४।१४) त्यादिना णोपदेशत्वान्नित्यमेव णत्वं भवतीति व्याचक्षते / भट्टिकाव्ये तु तिब्यपि विकल्पो दर्शितः / "प्रणिन्दिष्यति नो भूयः” इति / टनदि समृदी। 65 / नन्दति / प्रनन्दति। नन्दकः / नन्दनम् / नन्दथुः / नन्दयतीति नन्दनः / पचाद्यच / नन्दः / स्त्रियां नन्दा / घञ् / प्रानन्दः / आवश्यक णिनिः / नन्दी। (24) (22) / परिग्रह इति क्वचित् पाठः / (23) / अव गड़ि वदनैकदेशइति क्वचिदपपाठः। यती दकारान्तेषु डकारान्तस्य पाठः सन्दिग्धः / गडि वदनैकदंश इति माधवभट्टीजिग्रन्थेष्वपि नास्ति / अती मैय्यमतेऽपि अयं नास्ति एव / (24) नन्दते च कुलं पुंसामिति देवीमाहाभेन। आर्कोऽयं प्रयोगः। गणकार्यानित्यत्वादिति रमानाथस्य मनोरमा। विशिष्य सा भौमनरेन्द्रनन्दनति नैषधे /