________________ धातुप्रदोषः। कालापचान्द्रमततत्त्व विभागदक्षो धातुप्रदीपमकरोज्जगतो हिताय // 2 // इति महामहोपाध्यायधीमैत्रेयरक्षितकतौ धातुप्रदीप चुरादीनां वृत्तिः // 10 // धातुप्रदीपश्च परिसमाप्तः // शुभम् // 8 / तु गतिवद्धिहिंसासु। सूत्रञ्च-"तुरुस्तुशम्यमः . सार्वधातुके" (7 / 3 / 85) / अयञ्च लुगविकरण इति स्मरन्ति / तेनरामदादिः। तौति तवीति / तुतः तुवीतः। तुताव / तोता। तोष्यति। अतोषीत् / अयञ्छान्दस इत्यापिशलिमतमित्यदादिषूक्तम् / 8 / 8 / दभिः-अयं वार्सिकोक्तः। तथाच ण्यत्प्रकरण लपिदभिभ्याञ्चेति वक्तव्यम् ( 331:124, वा)। दभति / ददाभ / दाम्यम् / / 10 / चुलुम्म इति च वार्त्तिकोतो धातुः / चुलुम्पति चुलुम्पाञ्चकार / एभ्योऽधिकाः केचित् क्षदितदिशप्रभृतय उणादिषु उक्ता इति शम् / 10 // इति श्रीश्रीशचन्द्रचक्रवर्तिभट्टाचार्य कृतं * धातुप्रदीपविवरण समाप्तम् //