________________ 152 धातुप्रदीपः / - (10) कर्तृकरणाद् धात्वर्थे / कर्तुं यत् करण साधकतम ततो णिज् भवति। दात्रेच लुनाति दात्रयति / पसिना छिनत्ति असयति / परशुना छिनत्ति परशयति / करणस्य कर्तृग्रहणं विशेषणम् / किमर्थम् ? चक्षुरादीन्द्रियवचनो यः करणशब्दस्तत्परिग्रही मा भूदिति। तत्परिग्रहे चक्षुरादिशब्देभ्य एव स्यात् / __चित्र चित्रीकरणे / 358 / चित्रयति आलेख्यं करोतीत्यर्थः / चित्रं करोति चित्रीयत इत्याश्चयं करोतीत्यर्थः / कदाचिद् दर्शने च। चित्रयति चक्षुः / चित्रयति वक्षः / / . अंस समाधाते / 358 / अंसयति / अंसः। वट विभाजने / 360 / वटयति / वटेः पुनः पाठोऽर्थभेदात् / लज प्राणने / 361 / लजयति / वटि लजि इत्येके / 362 / 363 / वण्टयति / लञ्जयति / लाना। अदन्तेषु पाठवलाददन्तत्वे वृद्धिरित्यपरे। वण्टापयति / लञापयति / मिश्र सम्पर्के / 364 / मिश्रयति / मिश्रं करोति मित्रतीति च सर्शितम्। .. संग्राम युद्धे / 365 / संग्रामयते / असंग्रामयत / तस्थौ सिसंग्रामयिषुः शितेषुरिति भट्टिः / संग्रामः / / * स्तोम श्लाघायाम् / 366 / स्तोमयति / स्तोम्यम् / 'अग्निष्टोमः / छिद्र कर्ण भेदने / 367 / 368 / छिद्रयति / कर्ण यति / कर्णेनानुभवति आकर्णयति / कर्णेन भावयति कण यतीति व्याचक्षते / अन्ध दृष्ट्युपधाते / 368 / अन्धयति / अन्धः / दण्ड निपातने / 390 / दण्डयति / अददण्डत् / दण्डः / अङ्ग लक्षणे / 371 / अझयति / अङ्गः / अन्यत्रासते। अङ्ग पदे लक्षणे च / 372 / अङ्गयति / अङ्गयामास / अङ्गना / अन्यत्र अङ्गति। सुख दुःख तक्रियायाम् / 373 / 374 / तदिति सुखदुःखप्रातिपदिकार्थों निश्यिते। मुखयति / दुःखयति / तत्करोतीत्येवं सिद्धे सोप