________________ धातुप्रदीपः। -143 बस धारणे / 206 / त्रासयति मृगान् / अत्र वारणे धारणशब्दः / अन्यत्र वस्यति / वसति। उध्रस उच्छे / 207 / भ्रासयति / पूर्व एवायं धातुरिह पठ्यते / तेनाय मुदिदिति। मुच प्रमोचने / 208 / मोचयति / अन्यत्र मुञ्चति मुञ्चते / (4) आ खदः सकर्मकात् / खद आस्वादन इति वक्ष्यति / आ एतस्मात् सम्भषिकर्मकादेव णिज् भवतीति मन्तव्यम्। असम्भावितकर्मत्वे तु व्यात्तिः / आङपूर्वात् स्वद एव सकर्मकादित्येके / ग्रस ग्रहणे / 208 / ग्रासयति फलम् / अन्यत्र असते / पुष धारणे / 210 / पोषयत्याभरणम्। अन्यत्र पोषति। पुष्णाति / पुष्थति। दल विदारणे / 211 / दालयति | उद्दालः। अन्यत्र दलति / पट पुट लट लुट तुजि पिजि मिजि लुजि भजि भुजि लघि त्रसि पिसि दशि कुसि कुशि दसि घट घटि हहि वह वल्ह गुप धूप विच्छ चौव पुथ लोचू लोक णद कुप तर्क तु वृधु माषार्थाः / 2.12 / 245 / पाटयति अन्यत्र पटति / पोटयति / अन्यत्र पोटति / लाटयति / लोटयति / अन्यत्र लुटति लोटति / तुञ्जयति। अन्यत्र तुञ्जति / पिञ्जयति। अन्यत्र पिङ्क्ते / मिन्नयति / लुजयति / भञ्जयति / अन्यत्र भनक्ति / भुञ्जयति। लङ्घयति। अन्यत्र लते लाति / सयति / सनः / पिंसयति / दंशयति / अन्यत्र दशति / कंसयति / कुंसः। भूकंस: कुंसः भकुंसः। कंशयति / दंसयति / घाटयति / अयं सङ्घातेऽपि। अतःपुनर्घटिः पठ्यते / अर्थभेदात् / अन्यत्र घटते घटयति / घण्टयति। घण्टा। हहयति / हहणा। वहयति / अन्यत्र वहते। वल्हयति / अन्यत्र वल्हते। गोपयति। अन्यत्र गोपायति / धूपयति / अन्यत्र धूपायति / विच्छयति / अन्यत्र विच्छायति / चौवयति / अन्यत्र चीवते। पोथयति / अपूपृथत् / अन्यत्र पुष्यति / लोचयति / अलुलोचत् / अन्यत्र लोचते। लोकयति / अन्यत्र लोकते। नादयति / पन्यत्र नदति / कोपयति / अन्यत्र कुप्यति / तकरति / अहेऽप्ययमधीयते /