________________ धातुप्रदीपः। .. - 141 कण निमीलने / 174 / काणयति / काणः / अन्यत्र कणति / जभि नाशने / 175 / जम्भयति / जम्भत इतितु जभइत्यस्य रूपम् / / षूद क्षरणे / 176 / सूदयति / असूषुदत / सुषूदयिषति / अन्यत्र सूदते / जसु ताड़ने / 177 / जासयति / अर्थभेदात् पुनः पठ्यते / जस्यतीति दिवादेर्जसु मोक्षण इत्यस्य / / पश बन्धने / 178 / पाशयति / पाशाद विमोचयति विपाशयतीति चोक्तम् / पश बन्धन इति युजादावेके पठन्ति / पाशयति पशति / / अम रोगे। 17 / आमयति / आमः / अन्यत्र अमति / अमः / चट स्फुट भेदने / 180 / 181 / चाटयति / उच्चाटनम् / प्रचाटनम् / स्फोटयति प्रास्फोटयाञ्चकार। स्फोटकः। अन्यत्र स्फुटति / स्फोटते / चुरादिणिचीऽनित्यत्वाच्चटति विचटतीति च ब्रुवते / घट संघाते। 182 / घाटयति। उद्घाटनम् / अन्यत्र घटते / घटयति / (27) (3) हन्त्यर्थाश्च / येऽन्येषु नवसु गणेषु हन्त्याः सन्ति त इह द्रष्टव्याः / (28) घातयति / तस्यति / ताड़यति / यस्त्वत्र हन्त्यर्थः पठ्यते स कार्यविशेषार्थ इत्युबेयम् / दिवु अईने / 183 / देवयति शत्रून् / परिकूजने पूर्व दर्शितः। अन्यत्र दीव्यतीति / अर्ज प्रतियत्ने / 184 / अर्जयति / पार्जिजत् / अन्यत्रार्जति। घुषिरविशब्दने / 185 / घोषयति / अजूघुषत् / घुषिरविशब्दन इत्यत्र (7.2023) विशब्दनप्रतिषेधाद घुषेणिज् विकल्पात इत्येतत् साधितमनेन / घोषति / "जुघुषुः पुष्यमाणवा" इति विशब्दने सिध्यति / एतदुपलक्षणम् / तेन विचटति तनतीत्यादि सिध्यति। भ्वादिपठितस्य घोषति / अघुषद् अघोषीदिति / (27) प्रविघाटयिता समुत्पतन् हरिदश्वः कमलाकरानिति भारविः। कमलवनोद घाटनं कुर्वते व इति सूर्यशतके / (28) ते खाथै शिचं लभन्त इत्यर्थः।