________________ धातुप्रदीपः . 138 गूर उद्यमने / 155 / गूरयते / गूरणा / शम लक्ष आलोचने। 156 / 157 / शामयते / अशीशमत। लक्षयते अललक्षत / आलोचनादन्यत्र लक्षयतीति परस्मैपदमेव / कुत्म अवक्षेपने। 158 / कुन्सयते / अकुत्मयत / अचुकुत्सत / कुत्मा / भल भामण्डने / 158 / भालयते / उदभालयत / कूट अप्रमाद / 160 / कूटयते / कुट प्रतापन इत्येके / कोटयते / अन्यत्र कोटय त / लुट च्छेदने / 161 / त्रोटयते / वन्चु प्रलम्भने / 162 / वञ्चयते / अववञ्चत। वञ्चना। वञ्चतीति - भ्वादिपाठात् / / वृषु शक्तिसम्बन्ध / 163 / वर्षयते। अववर्षत अवौषत। वर्षणा / अन्यत्र वर्षतीति। मद टप्तियोगे / 164 / मादयते / अन्यत्र माद्यति / दिव परिकूजने / 165 / देवयते परिदेवकः / अन्यत्र दीव्यतीति / वञ्चप्रभृतिमुदितं पठति / स एवायं धातुरर्थान्तरे चुरादिरित्येवंबोधनार्थम् / (20) गृ विज्ञाने / 166 / गारयते / अन्यत्र गिरति / रणातीति / . विद वेदनाख्याननिवासेषु। वेदयते / 167 / निवेदयाञ्चक्रे / अन्यत्र वेत्ति वेद / विद्यते / विन्दत विन्दति / विन्ते / (21) मन स्तम्भे / 168 / मानयते / अन्यत्र मन्यते / मनुते / यु जुगुप्सायाम् / 168 / यावयते / अन्यत्र यौति / युनाति / कुस्म कुस्मयने / 170 / कुलसितस्मयनेऽस्य वृत्तिरिष्यते। कुस्मयते / कुस्मयिता / अकुस्मयत / अचुकुस्मत / चुकुस्मयिषते / कुस्मयितः / कुस्मकः / कुस्मयतेः किम् / कूः / कुम्मौ / कुस्मः / (2) कुम्म नाम्रो वेति। कुस्मयत (26). अतो मैत्रेयमते उदित्त्व प्रत्यभिज्ञानार्थम्। न णिची विकल्पार्थं भवति / प्रत्यभिज्ञामाश्रमेव तख फलमिति भावः। (21) . "सत्तायां विद्यते ज्ञान वेत्ति विन्ते विचारणे / विन्दते विन्दति प्राप्तौ श्यल लुक्सम शेष्विदं क्रमात् // 1 // इति /