________________ धातुप्रदीपः। 131 इति / चोरयाञ्चकार चोरयाञ्चके / चोरयिता / चोरयिष्यति चोरयिष्यते / चोरयतु चोरयताम् / अचोरयत् अचोरयत। चोरयेत् चोरयेत / चोऱ्यात् चोरयिषीष्ट / अचूचुरत् अचू चुरत / चुचोरयिषति चुचोरयिषते / कर्मणि चिण्वदिटपक्षे तस्यासिद्धत्वामिलोपः। चोरयिष्यते चोरिष्यते / चोरिता चोरयिता / चोरयिषीष्ट वा चोरिषीष्ट धनं देवदत्तेन / ण्यन्तेभ्यो यङ्नास्तीति सूचिसूत्रीत्यत्र (3 / 1 / 22, वा) न्यासकारः। रूपावतारे तु णिलोप प्रत्ययोत्पत्तेः प्रागेव कृते सत्येकाचत्वाद् यहुदाहृतश्चोचूर्यंत इति / चोरः। चौरः (2) / चोरणा / चुरेतिच्छत्रादिगणपाठात् सिध्यति / चिति स्मृत्याम् / 2 / चिन्तयति / चिन्तयाञ्चकार। चिन्ता। चिन्तिपूजिकथिकुम्बिचर्चश्चेति (3 / 3 / 105) अकारप्रत्यये विधातव्य यदविधानं तद्गुणाभावार्थम् / तत्मामात् कदाचिसिलोपो नास्तीति तत्र चिन्तियेतीयडुदाहत्तव्यः / एवं पूजिया / / यत्रि संकोचे / 3 / यन्त्रयति / यन्त्रणा / स्फुड़ि परिहासे / 8 / स्फुण्डयति / स्फुण्डिका / लक्ष दर्शनाङ्गनयोः / 5 / लक्षयति / लक्ष्यम् / लक्षणम् / लक्ष्मीः / लक्ष्मीत्यपि केचित् / लक्ष्मणः / स्वरितत्त्वमस्य केचित् प्रतिपद्यन्ते / लक्षयति लक्षयते इति / एवञ्चास्य स्खरितेत्त्वं ज्ञापकं णिचश्चेति ( 1 / 3 / 74 ) चुरादिणिजन्तादात्मनेपदं न भवतीति / कुट्रि अनृतभाषणे / 6 / कुन्द्रयति / अचुकुन्द्रत् / लड उपसेवायाम् / 7 / लाड़यति लाड़याञ्चकार / मिदि स्नेहने / 8 / मिन्दयति / ओलड़ि उत्क्षेपण / 8 / ओलण्डयति। अोलण्डकः। ओलण्डा / अोलण्डितः / (3) (2) चोर इति पचााच / चौर इति प्रज्ञादित्वात् खार्थेऽण् / (3) क्वचिदुकारादिह्यते। उलख्यतीत्यादि। चपुस्तके तु लण्डयति। लडकः। लण्ड ति वर्तते। अब माधव:-"केचिदोदितं पठन्ति / तेषां मते लण्डयति। अपर तुकारादिं पठन्ति। तदीकार धाववयवमुदाहरतां मैव यादौनाम, इत्संज्ञकत्वमभिदधता मन्येषाञ्च, सर्वेषामनभिमतम्।" इति।