________________ 130 धातुप्रदीपः / मुष स्तेये / 60 / मुष्णाति। मोषिता। मुमुषिषति / मुषित्वा / मुषितम् (14) / खच भूतप्रादुभावे / 11 / खच्ज्ञाति / चखाच / खचिता / खातु। चखान / खच्यात् / अखचीत् अखाचीत् / खचितम् / खव इलेके / 62 / खौनाति / चखाव / खविता / खौनातु / खौनौहि। अखौनात् / खौनीयात् / (15) खवितम् / खु इति केचित् / खुनाति / इति परसौभाषा उदात्ताः / हलन्ता एते श्रन्यादयः परस्मैपदिन: सेटः / (16) ग्रह उपादाने / 63 / गृह्णाति गृहीते / जग्राह जरहे। जग्रहिव जग्रहिवहे / ग्रहीता / ग्रहीष्यति ग्रहीयते / अग्रहीत् अग्रहीष्ट / अग्रहीढम् / पग्रहीध्वम् अग्रहीष्ट / जिक्षति जिक्षत / जरीग्राह्यते / ग्रहीतम् / रहीतम्। गृहौतिः / ग्रहः / उद्ग्राहः / ज्योतिषि ग्रहः। जलचरे ग्राहः / गृहम् / ग्राही / इति विभाषित उदात्तः / अयं स्वरितदितिपृथगस्योपन्यासः / वृदिति क्रयादिपरिसमाप्तेः / इति महामहोपाध्यायोमैत्रेयरक्षितकतो धातुप्रदीप यादीनां वृत्तिः // 8 // अथ चुरादय उच्यन्ते / चुर स्तेये / 1 / चोरयति / (1) चुरादि णिजन्ताण णिचश्चेत्यात्मनेपदं (1 / 3 / 74) न भवतीत्येके / धातुपारायणे त्वात्मनेपदमुदाहृतम् / चोरयत (14) सैन्यरेणुमुषितार्कदीधितिरिति रघुकाव्य। कथं तहिं मुष्ट प्रति ग्राहयता खमर्थ पानीकतो दस्युरिवासि येनेति शाकुन्तले ? चिन्त्यम्। आदितशेन्यव (2016) चकारस्यानुक्त समुच्चयार्थत्वादाश्वस्त वान्तादिवदि त्ये के। अन्ये तु उणादिषु मुष्टमिति द्रष्टव्यम् इत्याहु.। (15) खौनातीत्यवोठि कृते (64 / 19) एत्येधाविति (189) बुद्धिः / (16) अस्मात् परं हेट चैति धातु भट्टोजि: पठति। “अव क्वचित् हेठ चेति पठ्यत' इति तु माधवः / (1) सत्यापपाशत्यादिना ( 1125) स्वार्थे चुरादिभ्यो णिज्विधामादणिचशुरादः प्रयोगाभावः / अनित्य ण्यन्तासुरादय इति त्वेके। एतत्तु भाष्यविरुद्धम्। घुषिरविशब्दन इत्यस विचार "ज्ञापयत्याचार्यों विशब्दने घुषेर्विभाषा णिज्भवतीति / किमेतस्य ज्ञापने प्रयोजनम् ? महीपालवचः श्रुत्वा जुधुषुः पुष्यमाणवा इत्येष प्रयोग उपपन्नो भवतीति भगवता विशिष्ट विषयत्वेन अनित्यण्य तत्वस्याभिधानात्। अतएवा धृषाडेति गणसूत्रस्य न वैयाम् /