________________ धातुप्रदीपः / 121 . वजी वर्जने ! 24 / वृणक्ति / ववर्ज वजतुः / वर्जिता। वर्जिष्यति / अणक् / वर्जित्वा / वृतम् / पृची सम्पर्के / 25 / पृणक्ति / पपर्च | पर्चिता। अपृणक / सम्मृतम् / मधुपर्कः / मधुपर्क महति मधुपर्यः / पृक्त इत्यदादिपाठात् / वक्त इति च / इति परस्मैभाषा उदात्तेतः / इजिप्रभृतय उदात्ताः / वृदिति रुधादिगणपरिसमाप्तः। धातुपारायणे तु गणसमाप्तिर्नेष्यते / तेन लुनति पुनति लुनती पुनतीति सिध्यति इति महामहोपाध्यायत्रीमैत्रेयरक्षितकतो * धातुप्रदीप रुधादीनां वत्तिः // 7 // ... अथ तनादय उच्यन्ते / . तनु विस्तार / 1 / तनोति तनुते / तायते तन्यते / ततान तेने / तनिता। तनोतु तनुताम् / तनु तनुष्व / तनवानि तनवै। व्यतानीत व्यतनोत् व्यतनिष्ट व्यतत / तितनिषति तितांसति तितंसति तितनिषते तितांसते तितंसते / तंतन्यते / तन्वन् तन्वानः / तनित्वा तत्वा। ततम् / सततं सन्ततम् / सातत्यम् / वितत्य / ततिः / तन्तिः। परीतत् / वितानः / प्रतानः / तितउः / षणु दाने / 2 / सनोति सनुते / सायते सन्यते / सनिष्यति सनियते / सायात् सन्यात् / असनीत् असानीत् असनिष्ट असात। असनी: असानीः असनिष्ठाः असाथाः। सिषासति सिषासते सिसनिषते सिस निषति / सासायते संसन्यते। सनित्वा सात्वा / सातम्। सातिः सतिः सन्तिः / क्षण हिंसायाम् / 3 / क्षणोति क्षणुते / चक्षाण चक्षणे / क्षणिता / अक्षणोत् अक्षत अक्षणिष्ट / चिक्षणिषति / चङ्घण्यते / क्षाणयति / अधिक्षणत् / क्षत्वा क्षणित्वा / क्षतम् / क्षतिः / अस्योपदेश दनयनकार इति धातुपारायणे व्याख्यातम् / तेन यङ्लुकि चक्ष न्ति / चक्षान्तः /