________________ धाराप्रदीपः। पिश अवयवे / 163 / पिंशति / पिपेश / पेशिता। पिशितम् / पेशी। इति परस भाषाः / एते कतिप्रभृतयः परस्मैपदिनः / उदासाश्च खिदिवर्जम् / हदिति / मुचादेस्तुदादेश्च परिसमाप्तेः / मुचादयस्तुदादयश्च वृत्ताः समाप्ता इत्यर्थः। इति महामहोपाध्याय (32) श्रीमेवे यरक्षितकती धातुप्रदीप तुदादीनां हत्तिः // 6 // अथ रुधादय उच्यन्ते। रुधिर आवरणे / 1 / रुणद्धि / नित्यत्वाद् विकरणेन गुणो बाध्यते / रुन्धे / रुरोध रुरुधे / रोड़ा / रोस्यति रोत्यते / अरुधत् अरौत्सीत् अरुद्ध / समरुद विक्रमः स्वयमेव / . भिदिर विदारणे / 2 / भिनत्ति भिन्ते / अभिदत् अभैत्सीत् अभित्त / भिदा / भेदः / भित्तिः / हिदिर वैधीकरणे / 3 / छिनत्ति छिन्ते / चिच्छेद चिच्छिदे / अच्छिदत् अच्छे त्सीत् अच्छित / दधि चिच्छित्सति / रज्जुच्छित् / रिचिर विरेचने / 4 / रिणक्ति रिक्ते / अरिचत् अक्षीत् अरिक्त / रिरिक्षति रिरिक्षते / रेरिच्यते / विरकः / रिक्थं ट्रव्यम् / विचिर पृथग्भावे / 5 / विनक्ति विडते / . अविचत् अवैक्षीत् अविक्त / विविक्तः / विवेकः पृथगात्मता / विवेकी। क्षुदिर् सम्मेषणे | 6 / क्षुणत्ति सुन्ते / अक्षुदत् अक्षौत्सीत् अतुत्त / क्षुणम् / क्षुद्रः / युजिर योगे। 7 / युनक्ति युङ्क्ते / प्रयुङ्क्ते / नियुङ्क्ते / संयुनक्ति / अयुजत् अयौक्षीत् प्रयुक्त / युङ / युञ्जौ / योगः / अश्वयुक् / युग्यम् / युगम् / युज्यत इति युज समाधाविति देवादिकस्य / (1) (32) चपुस्तके वैयाकरणगनपञ्चानन इत्यवाधिकः पाठः / (1) प्रनास वत्ति यमयुङक्त वेदितुमिति स्वरितत्त्वात् मङ् /