SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ धातुप्रदीपः / 111 कर्चभिप्राये क्रियाफलेऽपि परस्मैपदं फलम्। मिलति / मिमेल / मेलिता। मिलितम् / मेलः / (14) लिख अक्षरविन्यासे / 84 / लिखति / लिलेख। लेखिता। अलेखीत् / लिखित्वा लेखित्वा / (15) हृल्लेखः / लेखनं / लेखनी। प्रायेण लेखकः / लिखनं लिखिष्यति लिखितव्यमिति तु संज्ञापूर्वकविधिरनित्य इति (प,८४)। गुणाभावं मन्यन्त / कुट कौटिल्ये / 85 / कुटति / चुकोट / कुटिता / अकुटीत्। चुकुटिषति / कोट्यम् / कुटित्वा। पुट संश्लेषण / 86 / पुटति / पुपोट / पुटिता / पुटित्वा। पुटम् / कुच सकोचे / 87 / कुचति / कुचिता / संकोचः / गुज शब्द / 88 / गुजति / गुजिता / अगुजीत्। गोजयंति / गुजः / गोजः / .. गुड़ रक्षायाम् / 88 / गुड़ति / गुड़िता | गुड़ः / गुड़ितः / डिप क्षेपे : 80 / डिपति / डिपिता। डेप्यम् / डिप्यतीति दिवादि. पाठात् / छुर च्छेदने / 81 / छुरति / छुर्यात् / छुरणम् / छुरितम् / छुरिका / स्फुट विकसने / 82 / स्फुटति / पुस्फोट / स्फुटिता। अस्फुटीत् / * भ्वादिषु पाठात् स्फोटति / अस्फुटत् अस्फोटीत् / स्फोटत इति / (14) कथं "न दृष्ट: शैथिल्य मिलम मिति चेतो दहति म" इत्यमरुशतके तनोमध्यस्थान्तः परिमिलनमप्राप्य हरितमिति रत्नावल्यां व्यालनिलयमिलनेन गरलमिव कलयति मलयसमौरमिति गौतगोविन्द ? नहि तत्पुरुषाश्रयेण मिल षणे लिख अक्षरविन्यास इति कुटादी। अपाच्चतुष्पाच्छकुनिष्वालेखन इति (1942) निर्देशात्। अन्ये तु मिलनशब्दस्थाने भावे लान्तं मिलिसशब्द पठन्ति यथा केचिद विथामशब्दस्थाने विश्वान्तिशब्द पठन्ति / (15) अचेदं केषाञ्चित् समाधानम्। गाङ् कुटादिभ्य इत्यव (1 / 2 / 1) कुटस्यादिः कुट आदिर्येषामित्येक शेषहत्त्या बहुव्रीहितत्पुरुषयोईयोरप्याश्रयणाल् "लिखितु विश्वसनोऽपि शक्तिहानि"रिति "खयमेव लिखिष्यत" इति सिद्धं भवतीति। अन्येतु लेखित्वा लिखित्वा लिलेखिषति विलेखितुमित्यादि वृत्तिकार (राराश४१३) प्रयोगदर्शनादालेखन इति (1142) निर्देशाच्च तत्पुरुषायणपक्ष दुष्ट एवेति मन्यमानाः संज्ञापूर्वको विधिरनित्य इति (प, 6) परिभाषया कैवलं लिखितुं लिखिष्यत इत्यभियुक्तप्रयोगहयं कथञ्चित समयन्ते। मिलिलिखयोस्तु कुटादिषु नान्तर्भाव एवेति व्यवस्थापयन्ति च /
SR No.004319
Book TitleDhatupradip
Original Sutra AuthorN/A
AuthorSrishchandra Chakravarti
PublisherVarendra Research Society
Publication Year1919
Total Pages166
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy