________________ 286 नमस्कार स्वाध्याय [संस्कृत पूज्यो भट्टारकस्तत्रभवानत्रभवान् महान् / महामहा(होऽ)हस्तश्रायुस्ततो दीर्घायुरयॆवाक् // 32 // आराध्यः परमाराध्यः, पञ्चकल्याणपूजितः / दृग्विशुद्धिगणोदनो, वसुधारार्चितास्पदः // 33 // सुस्वप्नदर्शी दिव्यौजाः, शचीसेवितमातृकः / *स्याद्रत्नगर्भः श्रीपूतगर्भो गर्भोत्सवोच्छ्रतः // 34 // दिव्योपचारोपचितः, पद्मभूनिष्कलः स्वजः। सर्वीयजन्मा पुण्याङ्गो, भास्वानुद्भूतदैवतः // 35 // विश्वविज्ञातसंभूतिर्विश्वदेवागमाद्भुतः।। शचीसृष्टप्रतिच्छन्दः सहस्राक्षो गुत्सवः // 36 // नृत्यदैवतासीनसर्वशक्रनमस्कृतः। हर्षाकुलामरखगचारणार्षिमनोत्सवः॥ 37 // व्योमविष्णुपदा(द)रक्षा, स्नानपीठायिताद्रिराट् / तीर्थेशमन्यदुग्धाब्धि, स्नानाम्बुस्नातवासवः // 38 // गन्धाम्बुपूतत्रैलोक्यो, वज्रसूचीशुचिश्रवाः। कृतार्थितशचीहस्तः, शक्रोद्दष्टेष्टनामकः // 39 // . शक्रारब्धानन्दनृत्यः, शचीविस्मापिताम्बिकः। इन्द्रनृत्यन्तपितृको, रैदपूर्णमनोरथः॥४०॥ आशार्थीन्द्रकृतासेवो, देवर्षीष्टशिवोधमः। दीक्षाक्षणक्षुब्धजगद् भूर्भुवःस्वापतीडितः॥४१॥ कुबेरनिर्मितास्थानः, श्रीयुग्योगीश्वरार्चितः। ब्रह्मेडयो *ब्रह्मविद् वेद्यो, याज्यो यक्षपतिःक्रतुः॥४२॥ यशाङ्गममृतं यहो, हविः स्तुत्यः स्तुतीश्वरः। भावो महामहपतिर्महायज्ञोऽप्रयाजकः // 43 // दयायागो जगत्पूज्यः, पूजा) जगदर्चितः।। देवाधिदेवः शक्रार्यो, देवदेवो जगद्गुरुः // 44 // संहूतदेवसंघार्च्या, पद्मयानो जयध्वजी। . भामण्डली चतुःषष्टिचामरो देवदुन्दुभिः॥४५॥ वागस्पृष्टासनः छत्रत्रयराट् पुष्पवृष्टिभाक् / दिव्याशोको मानमर्दी, सङ्गीतार्होऽष्टमङ्गलः // 46 // 4 अथ तीर्थकृच्छतम् तीर्थकृत्तीर्थसृट् तीर्थकरस्तीर्थङ्करः सुदृक् / तीर्थकर्ता तीर्थभर्ता, तीर्थेशस्तीर्थनायकः // 47 // धर्मतीर्थकरस्तीर्थप्रणेता तीर्थकारकः / तीर्थप्रवर्तकस्तीर्थवेधास्तीर्थविधायकः // 48 // सत्यतीर्थकरस्तीर्थसेव्यस्तैर्थिकतारकः। सत्यवाक्याधिपः सत्यशासनोऽप्रतिशासनः॥४९॥