________________ 256 नमस्कार स्वाध्याय ईशोऽधीशोऽधिपोऽधीन्द्रो, ध्येयोऽमेयो दयामयः / शिवः शूरः शुभः सारः, शिष्टः स्पष्टः स्फुटोऽस्फुटः // 1 // इष्टः पुष्टः क्षमोऽक्षामोऽकायोऽमायोऽस्मयोऽमयः / दृश्योऽदृश्योऽणुः स्थूलो, जीणों नब्यो गुरुर्लधुः॥२॥ स्वभूः स्वात्मा स्वयंबुद्धः, स्वेशः स्वैरीश्वरः स्वरः। आधोऽलक्ष्योऽपरोऽरूपोऽस्पर्शोऽशब्दोऽरिहाऽरुहः // 3 // दीप्तोऽलेश्योऽरसोऽगन्धोऽच्छेद्योऽमेद्योऽजरोऽमरः / प्राशो धन्यो यतिः पूज्यो, मह्योऽय॑ प्रशमी यमी // 4 // श्रीशः श्रीन्द्रः शुभः सुश्रीरुत्तमश्रीः श्रियः पतिः। श्रीपतिः श्रीपरः श्रीपः, सच्छीः श्रीयुक् श्रिया श्रितः // 5 // शानी तपस्वी तेजस्वी, यशस्वी बलवान् बली। दानी ध्यानी मुनिर्मोनी, लयी लक्ष्यः क्षयी क्षमी // 6 // लक्ष्मीवान् भगवान् श्रेयान् , सुगतः सुतनुर्बुधः / बुद्धो वृद्धः स्वयंसिद्धः, प्रोश्चः प्रांशुः प्रभामयः // 7 // इति आदिदेवो देवदेवः, पुरुदेवोऽधिदेवता / युगादीशो युगाधीशो, युगमुख्यो युगोत्तमः // 1 // दीप्तः प्रदीप्तः सूर्याभोऽरिनोऽविघ्नोऽधनो घनः। शत्रुघ्नः प्रतिघस्तुङ्गोऽसङ्गः स्वङ्गोऽप्रगः सुगः // 2 // स्याद्वादी दिव्यगीर्दिव्यध्वनिरुद्दामगीः प्रगीः। पुण्यवागहवागर्धमागधीयोक्तिरिद्धगीः॥३॥ पुराणपुरुषोऽपूर्वोऽपूर्वश्रीः पूर्वदेशकः / जिनदेवो जिनाधीशो, जिननाथो जिनाप्रणीः // 4 // शान्तिनिष्ठो मुनिज्येष्ठः, शिवतातिः शिवप्रदः / शान्तिकृत् शान्तिदः शान्तिः, कान्तिमान कामितप्रदः // 5 // श्रियां निधिरधिष्ठानमप्रतिष्ठः प्रतिष्ठितः / सुस्थिरः स्थावरः स्थास्तुः पृ(प्र)थीयान् प्रथितः पृथुः // 6 // पुण्यराशिः श्रियोगशिस्तेजोराशिरसंशयी। शानोदधिरनन्तौजा, ज्योतिमूर्तिरनन्तधीः // 7 // विज्ञानोऽप्रतिमो भिक्षुर्मुमुक्षुर्मुनिपुङ्गवः / अनिद्रालुरतन्द्रालुर्जागरूकः प्रभामयः // 8 // कर्मण्यः कर्मठोऽकुण्ठो, रुद्रो भद्रोऽभयङ्करः। लोकोत्तरो लोकपतिलोकेशो लोकवत्सलः // 9 // .. त्रिलोकीशस्त्रिकालात्रिनेत्रस्त्रिपुरान्तकः / त्र्यम्बकः केवलालोकः, केवली केवलक्षणः // 10 // समन्तभद्रः शान्तादिर्धर्माचार्यो दयानिधिः। सूक्ष्मदर्शी सुमार्गक्षः, कृपालुर्मार्गदर्शकः // 11 // 35