________________ विभाग] 255 अर्हन्नामसहस्रसमुश्चयः प्रमाणपरिधिदक्षो, दक्षिणोऽध्वर्युरध्वरः। प्रक्षीणबन्धः कर्मारिः, क्षेमकृत् क्षेमशासनः॥४॥ क्षेमी क्षेमङ्करोऽक्षय्यः, क्षेमध(क)र्मा क्षमापतिः। अग्राह्यो शानिविशेयो, ज्ञानिगम्यो जिनोत्तमः॥५॥ जिनेन्दु नितानन्दो, मुनीन्दुर्दुन्दुभिस्वनः / मुनीन्द्रवन्धो योगीन्द्रो, यतीन्द्रो यतिनायकः॥६॥ असंस्कृतः सुसंस्कारः, प्राकृतो वै कृतान्तवित् / अन्तकृत् कान्तगुः कान्तश्चिन्तामणिरभीष्टदः॥७॥ अजितो जितकामारिरमितोऽमितशासनः / जितक्रोधो जितामित्रो, जितक्लेशो जितान्तकः // 8 // सत्यात्मा सत्यविज्ञानः, सत्यवाक् सत्यशासनः। सत्याशीः सत्यसन्धानः, सत्यः सत्यपरायणः // 9 // सदायोगः सदाभोगः, सदातृप्तः सदाशिवः। सदागतिः सदासौख्यः, सदाविद्यः सदोदयः॥१०॥ सुघोषः सुमुखः सौम्यः, सुखदः सुहितः सुहृत्। सुगुप्तो गुप्तिभृद् गोप्ता, गुप्ताक्षो गुप्तमानसः॥ 11 // इति सप्तमशतप्रकाशः॥ 700 // बृहद् बृहस्पतिर्वाग्मी, वाचस्पतिरुदारधीः / मनीषी धिषणो धीमान् , शेमषीशो गीरांपतिः॥१॥ नैकरूपो नयोत्तुङ्गो, नैकात्मा नैकधर्मकृत् / अविशेयोऽप्रतात्मा, कृतक्षः कृतलक्षणः॥२॥ ज्ञानगर्भो दयाग , रत्नगर्भः प्रभास्वरः। पद्मगर्भो जगद्गर्भो, हेमगर्भः सुदर्शनः॥३॥ लक्ष्मीशः सदयोऽध्यक्षो, दृढयोनिर्नयीशिता। मनोहरो मनोज्ञोऽो, धीरो गम्भीरशासनः॥४॥ धर्मयूपो दयायागो, धर्मनेमिर्मुनीश्वरः। धर्मचक्रायुधो देवः, कर्महा धर्मघोषणः॥५॥ स्थेयान स्थवीयान् नेदीयान् , दवीयान् दूरदर्शनः। सुस्थितः स्वास्थ्यभाक् सुस्थो, नीरजस्को गतस्पृहः॥६॥ वश्येन्द्रियो विमुक्तात्मा, निःसपत्नो जितेन्द्रियः। श्रीनिवासश्चतुर्वक्त्रश्चतुरास्यश्चतुर्मुखः // 7 // अध्यात्मगम्योऽगम्यात्मा, योगात्मा योगिवन्दितः। सर्वत्रगः सदाभावी, त्रिकालविषयार्थदृक् // 8 // शङ्करः सुखदो दान्तो, दमी शान्तिपरायणः। . स्वानन्दः परमानन्दः, सूक्ष्मवर्चाः परापरः // 9 // अमोघोऽमोघवाक् स्वासो दिव्यदृष्टिरगोचरः। सुरूपः सुभगस्त्यागी, मूर्तोऽमूर्तः समाहितः // 10 // एकोऽनेको निरालम्बोऽनीहग् नाथो निरन्तरः। प्रार्योऽभ्यर्थ्यः समभ्यर्च्यस्त्रिजगन्मङ्गलोदयः // 11 // इति अष्टमशतप्रकाशः॥ 800 //